हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 53, कुल 506 में से
संदर्भ में पढ़ें८ हर्षचरितम् दुक्तम् । आस्तां तावत्काव्यतत्त्वविदः सहृदया विवेक्तारः, येऽपि शास्त्राप्रहितबुद्धयो दुरूढमत्सरप्रायास्तेषामपि या हृदयंमाह्लादयन्ति । तथा चोक्तम्—‘असुणिअ परमंथान वि हरेह वाआमहाणं कइम्मांण । आणाणजकुवलभवणमलद्धगंधाण वि सुहाइ ॥’ इति । मधुराश्च ताः सान्द्राः सरसाः । अन्यत्र-मधुना मकरन्देन किंज- ल्केन रसेन सान्द्राः सुगन्धयः ॥ १६ ॥ नई उकसी हुई मंजरियों के समान मधुर एवं सरस कालिदास की सूक्तियों में उच्चारणमात्र से ही किसे नहीं आनन्द आता ? ॥ १६ ॥ समुद्दीपितकंदर्पा कृतगौरीप्रसाधना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १७ ॥ समुदित्यादि । बृहत्कथा कस्य न विस्मयाय । अपि तु सर्वस्यैव गर्वविनाशाय भवतीत्यर्थः । अद्भुतकथावर्णनादाश्चर्याय । समुद्दीपितो वृद्धिं नीतः कंदर्पो यस्याम् । कामजननानां बहूनां वृत्तान्तानां वर्णनादुद्बोधितः स्मरो ययेति वा । काव्यसेवया हि शृङ्गाररसः समुद्भवति । तथा चोक्तम्—‘ऋतुमाल्यालंकारप्रिय- जनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥’ यद्वा- समुद्दीपितः प्रकाशितः ख्यातिं नीतः कन्दर्पो नरवाहनदत्तो यस्यामिति । स हि कामांश इत्यागमः । कृतं गौर्या विद्याभेदस्याराधनं यस्याम् । सा हि नरवाहनद- त्तेनेक्षारूपाराधितेति तत्रोक्तम् । यद्वा-गौरीं प्रति पूरयति गौरीप्रः । साधनं परि- करबन्धो यथाप्रस्तावो यस्याम् । गौरीप्रेरितेन हि हरेण तथा तस्यां परिकरबन्धः कृतो यथा सातीव पिप्रिये । हरलीलापि समुत् सहर्षा, दग्धकामा च । कृतं गौर्याः प्रसाधनं मण्डनं यस्याम् । क्व कामं प्रति तादृग्द्वेषः, क्व च कान्तां प्रति प्रसाधन- मिति कृत्वा विस्मयमाश्चर्यम् ॥ १७ ॥ जैसे कामदेव को जलाकर भस्म करना और पार्वती का श्रृङ्गार करना आदि परस्पर विरुद्ध बातों से शिव की लीला किसे नहीं विस्मित करती, उसी प्रकार वर्णनों द्वारा कन्दर्प (कामदेव या नरवाहनदत्त) को प्रकाशित करने वाली एवं पार्वती के प्रति आराधना से युक्त (गुणाढ्य की) बृहत्कथा किसे नहीं विस्मय-विमुग्ध करती ? ॥ १७ ॥ आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतेरपि । जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ १८ ॥ आढ्येति । आढ्यराजः कश्चित्कविः । उत्साहो नृत्ते तालविशेषः । उदीर्यमाण- गीत्याधारभूतपदोपचारात्काव्यमप्युत्साह इति केचित् । यत्र पूर्वं श्लोकेनार्थ उपक्षि- प्यते, पश्चात्स एव गद्येन वितन्यते, मध्ये वृत्तनिबन्धश्च भवति, स परिसमाप्तार्थ १. आध :