हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 69, कुल 506 में से
संदर्भ में पढ़ें२४ हर्षचरितम् मध्यमं लोकं भूमिम् । अंशुमाली रविः । क्रमेणेत्यादावस्मिन्सति सावित्री सरस्वतीमवादीदिति सम्बन्धः । विसरशब्द औणादिकः षण्डपर्यायः । मुदिताः सञ्जातमन्मथाः । कामिन्यः शृङ्गारिण्यः । सम्भोगान्तरायकारी कथमयमद्यापि नास्तमेतीत्यतः कोपः । क्षिप्यमाणश्चातिस्वरितं पतति । क्षेपीयस्तूर्णतरम् । लपनं वदनम् । लोकेत्यादिना सम्भोगविघ्नकारित्वमेव प्रकाश्यते । माहेयी गौः । उद्दामः प्रवृद्धं गतः । उपशल्यं समीपम् । चामीकरं सुवर्णम् । रदना दन्ताः । रदति विलिखति । सुरस्रवन्ती गङ्गा । रोधस्तटम् । स्वैरं स्वेच्छम् । 'या दूतिका गमन- कालमपाहरन्ती सोढुं स्मरज्वरभरार्तिपिपासितेव । निर्याति वल्लभजनाधरपानलो- भात्सा कथ्यते कविवरैरभिसारिकेति ॥' तारापथो नभः । आवर्जिते प्रकीर्णे । ककुभो दिशः । कुसुमभं पद्मक्रम् । रक्तचन्दनद्रवे स्रवति सतीति योजना । वन्दारु वन्दनशीलम् । वृन्दारकशब्दः प्रशंसायाम् । सवनं प्रातर्मध्याह्ने सायं च सोम- यागैकदेशस्नानमित्यन्ये । ब्रह्म वेदः । वैतानो यज्ञभवः । जटालानि व्याप्तानि । अजिरान्यङ्गणानि । आरब्धे धर्मसाधने शिबिरे पुण्योपकरणस्कन्धावारे नीरज- नाख्यं शान्तिकर्म येषु । धर्मोपकरणविषये मा दोषः प्रादुरभवन्निति । 'शमनं सर्वपापानां जप्यं त्र्यघमर्षणम्' । गदो रोगः । उल्लाघं स्वस्थताकरम् । यत- यश्चतुर्थाश्रमिणः । सद्यो जलत्यक्तं तटं पुलिनम् । नलिनयोनिर्ब्रह्मा । हंसानां हासः शौक्ल्यं, हंसा एव वा शुक्लतया हासः । दन्तुरा एव दन्तुरिताः । ये च सहासास्ते लक्ष्यमाणदन्तद्वया दन्तुरा इव दृश्यन्ते । आतपत्रं छत्रम् । पत्ररथाः पक्षिणः । कलत्रं दाराः । मधु मकरन्दः, मद्यं च । मधुपा भ्रमराः, मद्यपाश्च । मुमुदिषमाणे विचकि- सिषति । अन्यत्र,-मोदितुमिच्छति । प्रारिप्स्यमानगीतादिगोष्ठीबन्ध इति यावत् । 'मञ्चाः क्रोशन्ति' इतिवत् । नाम्यदिति । ताम्यन्ति, न तु तान्तानि, प्रदोषस्य न तावत्प्रवृत्तत्वात् । मधु, मद्यमपि । सपीतिस्तु सहपानम् । अनेन तु प्रेमातिशय आवेद्यते । सुषुप्सति निद्रासति । मृदिति । कण्डूयनं विक्रियाविशेषम् । कुण्ड- लिता चक्रीकृता । राजीवं पद्मम् । राजहंसा इत्यत्रैकशेषः । तटशब्दः प्रत्यासत्त्यु- पलक्षणार्थः । पुरंधिरुत्तममहिला । धम्मिज्ञाः संयताः कचाः । मल्लिका भूपदी । एषा च सायमेवोन्मिषति । सायंतने दिनान्तभवे । कोषः कुड्मलम् । कोटरमन्ध- न्तरम् । कुटी गेहम् । शयनमत्र विश्रमणम्, न तु स्वापः, पौनरुक्त्यापत्तेः । अटवीति विवक्षितम् । तत्रैवाकृत्रिमकुसुमसंबंधात् । कुटजं गिरिमल्लिका । कुड्मलं कलिका । निकरः समूहः । अनुबन्धः संस्कारः । परिणमजरठीभवत् । तालस्तृण- राजः । मेदुरं घनम् । मीलयति स्थगयति । नववयसि प्रथमे । चम्पको हेमपु- ष्पकः । आरन्नानमर्षिच्छुष्कम् । नीरं जलम् । कालिन्दी यमुना । नीलिमाभिप्रा- येणैतत्पदम् । यस्तटभागो वारिणा त्यक्तस्तत्पुलिनम् । कूलं ततोऽन्यत् । कृशा- मति तनूकुर्वति । खमुचि त्यक्ताकाशे । भूभागमवलम्बमान इत्यर्थः । मेचकितं