भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 97, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 97

५२ हर्षचरितम् शिथिलजूटिकाबन्धा नीलचामरावचूलिनीव चूडामणिमकरिकासनाथा, मकरकेतुपताकेव कुलदेवतेव चन्द्रमसः, पुनःसंजीवनौषधिरिव पुष्प- धनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य, कुवलयदळदामदीर्घलोचनया पाटलाधरया कुन्दकुड्मलस्फुट- दशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलकरया बकुलसुर- भिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरण्डवाहिन्या महाप्रमाणाश्वतरारूढयानुगम्यमाना, कतिपयप्रतिचारकपरिकरा मालती समदृश्यत। दूरादेव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृदयेन, स्नापितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अभ्यर्थितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधमुपययौ। अवतीर्य च दूरादेवानतेन मूर्ध्ना प्रणाममकरोत्। आलि- ङ्गिता च ताभ्यां सविनयमुपाविशत्। सप्रश्रयं ताभ्यां संभाषितात च पुण्यभाजनमात्मानममन्यत। अकथयच्च दधीचसंदिष्टं शिरसि निहिते- नाञ्जलिना नमस्कारम्। अगूढाद्याकारतः अभृत्यग्राम्यतया तैस्तैरतिपेशा- लैरालापैः सावित्रीसरस्वत्योर्मनसी। अपरेण रीत्यादावीदृशी मालती समदृश्यतेति संबन्धः। दिवि मणिरिव द्युमणिः। वियद्भूषणं सूर्यः। अभिद्रुता न्यक्कृता। तामरसं पद्मम्। व्यासो विकासः। अति- मुक्तकं पुष्पभेदः। केचिन्मालतीलताकुसुममाहुः। सटास्ति यस्येति। 'प्राणिस्था- दातो लजन्यतरस्याम्'। गौरी गौराङ्गी, पार्वती च। सजलतुरङ्गाङ्गस्पर्शपरिजिही- र्षयोरुवभ्रेत्याद्युक्तम्। प्रियमधुरशब्दत्वादश्वानामाकर्ण्यमानेत्युक्तम्। पिण्डाल- क्तकः कथितोऽलक्तकरसः। दोहदोऽभिलाषः। वाद्यविशेषानुगताङ्गुल्यघोषणा। रशना मेखला। शिञ्जानं शब्दायमानम्। निर्मोकः सर्पत्वक्। आप्रपदं प्राप्नोत्याप्रपदीनः पादं यावत्। छातस्तनुः। कुसुमभं पद्मक्रम्। नानावर्णबिन्दुन्यासः पुलकबन्धः, मणिविशेषाश्च पुलकाः। चण्डातकमधोरुकम्। कुचावेव कस्यापि पुण्यवत इवेति वक्ष्यमाणाभिप्रायेण पूर्णकलशौ। कस्यापीत्यलौकिकस्य। वनमाला पञ्चपुष्पयो- जिता स्रक्। सापि पूर्णकलशयोरुपरि बध्यते। प्रकोष्टः प्रकुञ्चनकः। वेदिका रत्न- १. तुरगाद्दूरादेवानतंन ।

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 97, कुल 506 में से · BharatKosha