हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 98, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ५३ प्रतिष्ठापीठिका । बहलं पौनःपुन्येन कृतम् । कृष्णिका कृष्णलेखा । मुखमेव तमःपारप्रतिपिपादयिष्या शशी । ताम्बूलकारणत्वेन लौहित्यमेव सम्भवतीति ससन्ध्यारागमित्युक्तम् । नील्योषधिभेदः । शितिनीलः । पल्लवः पिण्डः । बालिका कर्णोपवेधेऽलंकारः । अधोमुखेन घटादिना जलवर्षिणा लता सिच्यते । मृगमदः कस्तूरिका । तिलकबन्दुिः परिवर्तुलस्तिलकः । लासको नर्तकः । 'सुवर्ण- शृङ्खलाबद्धो नानारत्नौघमण्डितः । ललाटलम्ब्यलंकारश्चटुलातिलको मतः ॥' अव- चूल चिह्नम् । मकरिका मकराकारं रूपम् । वेला यथा सागरं क्षोभयति तद्वदेवेयं रागम् । क्षोभेन यथा सागरो दुरुत्तर एवमेतयापि रागः । यथा ज्योत्स्नया विना चन्द्रोदयो भत्रन्नपि न क्वापि विलसन्विभाव्यते तथैतया विना यौवनं सविलासम्- न्यत्र न दृश्यते । रतिप्रधानो रसः शृङ्गार एव । माधुर्यातिशययोगित्वात्प्रकृष्टत्वाच्च । ह्लादनममृतम् । यदुक्तम्- 'शृङ्गार एव परमः परः प्रह्लादनो रसः' इति । संप्रयोगो रतं रहःशयनं मोहनमिति पर्यायाः । बालविद्या न कंचन मुञ्चति, तद्वदेष वैद- ग्ध्यम् । कौमुदीति । तथाविधकान्त्यतिशयसंभवात् । ध्रियते येन धृतिः । अस्यां सत्यां धैर्यमपि । यद्वा-धृतिः प्रवेशरक्षणम् । यथा प्रविशन्कश्चिद्राजनिकटं ध्रियते केनचित्तथा धैर्यं तावत्प्रसरति । यावदेषा न दृष्टा एतस्यां दृष्टायां सर्वे धैर्यशून्या इति । 'समानविद्यावित्तशीलबुद्धिवयसामनुरूपैरालापैरकत्रासनबन्धो गोष्ठीमन- स्विता' इत्यनेनैतस्या महानुभावताया व्यभिचारित्वमुच्यते । यस्माच्चत्र मनस्विता तत्र महाशयत्वमेवावश्यं सम्भावयतीति स्थितमेव । तृप्तिरिवेति । यथा कश्चित्सञ्जा- ततृप्तिर्नान्यत्किंचित्पुनरपेक्षते तद्वदासादितमालतीकं तारुण्यम् । एतदाश्रयणेन परिपूर्णवैषयिकोपभोगप्राप्तिस्तारुण्यस्येत्यर्थः । कुसुममयेवेति । कुवलयादिभिर्न- यनादीनां विधानम् । तरुणोऽश्वोऽश्वतरः । 'वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वम्' इति तनुत्वे तरप् । अत्र च व्याख्यातम् - 'तनुत्वं द्वितीयवयःप्राप्तिः' इति । अश्वतरो वा गर्दभेनाश्वायां जातः । मालतीति । एवं दधीचपरिवारभूतया मालत्या गुणवर्णन- द्वारेण सरस्वत्या एव निःसामान्यगुणातिशयो ध्वन्यते । लुण्ठनेवेति । वक्ष्यमाणं प्रार्थनादि । तया मनोरथैरुप्रेक्ष्य स्वीकृतमित्यतस्तैर्लुण्ठितेवेत्युक्तम् । लुण्ठनं च पाथेयाभिवितरणमेवमन्यत् । उत्कलिका रहुरुहिका । सविधं समीपम् । अपि च यः स्निग्धो दूरात्सविधमायाति, तस्य लुण्ठनादिसर्वमर्चनावसानं क्रियत इति ध्वनिः । पेशलैर्हृद्यैः । अगले दिन आकाश के रत्न, प्रखर किरणों वाले, तारों को भगा देने और अंधकार को हटा देने वाले, कमलों को विकसित करने के शौकीन भगवान सूर्य के उदित होते ही सोन पार करके आती हुई मालती दिखाई पड़ी । अपने शरीर की तरल प्रभा से सोन के जल को वह और भी निर्मल कर रही थी । वह बड़े तुरंगम पर सवार थी, जिसका वर्ण माधवी के फूल की भाँति था, और उसकी गर्दन पर झालर जैसी अयाल थी । मालती