हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 50, कुल 184 में से
संदर्भ में पढ़ें८ हर्षचरितम् १अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिब सुभाषितैः ॥ १३ ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे ३भासो देवकुलैरिव ॥ १५ ॥ ४निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । अविनाशिनमित्यादि । अविनाशिनं प्रसिद्धम्, अनश्वरं । च अग्राम्यं वैदग्ध्य- युक्तम्, अग्राममवं च । जातिः स्वभावोक्तिरूपोऽलङ्कारः । कोशः समुच्चयः, शब्दज्ञश्च । सुभाषितैः सूक्तिभिः, शोभनं च भाषितं प्रभाववर्णनं येषां तैः ॥ १३ ॥ कीर्तिरत्यादि । प्रवरसेन कश्चित्कविः प्रवे प्लुते रसो येषां ते प्रवरसा वानरा- स्तेषामिनः स्वामी, प्रवरा च सेना यस्य स सुग्रीवश्च । कुमुदवत्कैरववत् । यद्वा—कुमु- मिस्तस्या मुत् प्रहर्षस्तद्येति, कुमुदेन वानरसेनापतिना च । सेतुः प्राकृतकाव्यग्रन्थः, सेतुश्च ॥ १४ ॥ सूत्रेत्यादि । सूत्रधारः पूर्वरङ्गस्य प्रवक्ता याञ्चिक्यः' स्थपतिश्च । भूमिकाः पात्राणि रामाद्यनुकार्यावस्थाभूमयः, उपभोगनिमित्तान्युत्पत्तिस्थानानि । पताका अर्थप्रकृतिः । उक्तं च—'बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयो ह्येताः पञ्च सर्वप्रयोगाः ॥' इति । 'यदवृत्तं तु परार्थं स्यात्प्रधानस्योपकारकम् । प्रधान वच्च कल्पेत सा पताकेति कीर्त्यते ॥' इति वैजयन्ती च पताका ॥ १५ ॥ निर्गतास्विति । निर्गता उच्चारितमात्राः । आस्तां तावदर्थविगतिः, आपात एव सातवाहन ने निर्दोष गुणालङ्कारयुक्त सुभाषितों का एक संग्रह तैयार किया जो विशुद्ध जाति के रत्नों के कोष के समान कभी विनष्ट नहीं होने वाला, वैदग्ध्यपूर्ण हुआ ॥ १३ ॥ प्रवरसेन नामक कवि की कुमुद के समान उज्ज्वलकीर्ति सेतु (बन्ध) नामक प्राकृत काव्य के द्वारा पार कर गई, जैसे कुमुद नाम के एक बानर-सेनापति से शोभित वानरों की सेना सेतु के द्वारा समुद्र पार पहुँच गई थी ॥ १४ ॥ भास ने देवमन्दिरों के समान अपने नाटकों से लोक में ख्याति प्राप्त की जिनका आरंभ सूत्रधार करता है, जिनमें पात्रों की भूमिकायें (अवस्थायें) और सहायक कथायें (पताका) रहती हैं ॥ १५ ॥ नई उगती हुई मंजरियों के समान मधुर एवं सरस कालिदास की सूक्तियों में १. कुविनाशिनम् । २. भूपिकैः । ३. भासा । ४. निसर्गसूरवंशस्य ।