हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 49, कुल 184 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ १० ॥ कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ११ ॥ पदबन्धोज्ज्वलो³ हारी कृतवर्णक्रमस्थितिः । भट्टारहरिश्चन्द्रस्य गद्यबन्धो³ नृपायते ॥ १२ ॥ वक्त्रे सरस्वती । वृत्तविशेषयोगिनीत्यर्थः । एतस्मिन्नाख्यायिकाङ्गिर्भाविवस्तुसंस्- चनाय वाग्विरच्यते । तथा चाह भामहः—'वक्त्रं चापरवक्त्रं च काव्ये काव्यार्थ- शंसिनि' इति । आख्यायिकाः कुर्वन्तीत्याख्यायिकाकाराः । यद्वा—आख्यायिकैवा- कारो येषाम् । अथ 'कविं पुराणम्' इति न्यायेन कवयश्च त ईश्वरा हरिहरब्रह्माणः । उच्छ्वसन्ति भूतान्यस्मिन्नित्युच्छ्वासः कल्पस्तदन्ते संहारेऽपि तेऽखिन्नाः कल्पान्तर- जननोद्योगिनस्तेषां मुखे वागीशी । उक्तं च—सरस्वतीवाग्बलमुत्तमोऽनिलः’ इत्यादि । आख्यायिकाभिराख्यानैराकारो येषाम् । सर्वस्य हि शास्त्रागमसमधि- गम्याः, न पुनः प्रत्यक्षलक्ष्याः । ते च वन्द्याः सर्वस्य ॥ १० ॥ कवीनामिति । वासवदत्ता कथा, वासवेन शक्रेण दत्ता च । कर्णः श्रवणं, राधेयश्च । कवीनां काव्यकर्तॄणां, द्रोणादीनां च ॥ ११ ॥ पदेत्यादि । पदानां सुप्तिङन्तानां बन्धः प्रकृष्टा रचना । रीतिरित्यर्थः । स्वमण्डलावष्टम्भश्च । हारी हृद्यः, हारयुक्तश्च । अहारीति वा । न कस्यचिदपि यो हरति । कृता वर्णानामक्षराणां क्रमेण भामहादिप्रदर्शितनीत्या स्थितिरवस्थां यत्र, कृतयुगवर्द्धर्णानां द्विजादीनां क्रमेण मन्वादिस्मृतिकारप्रकाशितमार्गेण स्थितिः पालनं यस्मिन्सतीति च । भट्टारेति पूजावचनम् ॥ १२ ॥ ऐसे आख्यायिकाओं का निर्माण करने वाले कवि क्यों नहीं वन्दनीय हैं ? ॥ १० ॥ निश्चय ही सुबन्धु की रचना 'वासवदत्ता' के कानों तक पहुँचते ही कवियों का अभि- मान उस प्रकार चूर्ण हो गया जिस प्रकार इन्द्र द्वारा प्राप्त 'शक्ति' नामक अस्त्र विशेष को कर्ण के पास देखते ही द्रोण आदि का गर्व बिल्कुल नहीं रहा ॥ ११ ॥ आर्य हरिश्चन्द्र द्वारा निर्मित गद्यकाव्य राजा के समान है, उसमें शब्दों की रचना निर्मल है, वह मनोहर है एवं उसमें आलंङ्कारिकों के मतानुसार अक्षरों की एक क्रम से संघटना है । (राजा भी अपने पद या मण्डल पर जम कर रहता है, हार धारण करता है, या 'अहारी' पाठ के अनुसार किसी का हरण नहीं करता एवं ब्राह्मण आदि वर्णों की क्रमानुसार स्थिति रखता है) ॥ १२ ॥ १. पुत्रस्य । २. पदबद्धोज्ज्वलो हारिकृतकण्ठक्रमस्थितिः । ३. पद्य ।