हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 48, कुल 184 में से
संदर्भ में पढ़ेंनवोऽर्थो जातिरग्राम्या¹ श्लेषोऽक्लिष्टः स्फुतो रसः । ²विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न ³व्याप्नोति जगत्त्रयम् ॥ ९ ॥ उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती ।
नव इत्यादि । नव आद्यैः कविभिरनिबद्धः, चमत्कारी च । जातिः स्वभा- वोक्तिः । अग्राम्येति । न तु 'गतोऽस्तमर्कः' इत्यादिरूपा । सधर्मेषु तन्त्रप्रयोगः श्लेषः । अक्लिष्टः सम्यगनेकार्थप्रतिपादनक्षमः । स्फुटो दुर्बोधमङ्गवागादिभिरदूषितः। रसः शृङ्गारादिः । विकट उदारतालक्षणबन्धगुणयुक्तः । यत्र सति नृत्यन्तीव पदानि प्रतिभासन्ते ॥ ८ ॥ किमित्यादि । वृत्तानि वर्णमात्रागणसमाधंसमविषमरूपाणि तदन्तगमनं तद्वि- रचनक्षमत्वम् । भारती वाणी । व्याप्नोति । अदृष्टमपि दृष्टमिव जगत्त्रयं प्रतिमानव- शाद्व्युत्पत्तेश्च तथात्वेन प्रकाशयति । यद्वा—जगत्त्रयप्रथिता भवतीति स्फुट एवार्थः । भरतानधिकृत्य ग्रथिता भारती कथेव । सापि सर्वे ये वृत्तान्ताः सत्पुरुषचरितान्यु- पाख्यानानि च तान्गमयति बोधयति । तथा सर्वत्र ज्ञेया भवति । तथा च— ‘नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥' इत्युक्तम् ॥ ९ ॥ अधुना स्वगुरुतः स्वप्रभृतिभिः कृतानाख्यायिकादीन्काव्यभेदान्स्तुवन्नोद्धत्यार्थं सर्वत्र नमस्कारमाह—उच्छ्वासान्त इति । उच्छ्वास इवोच्छ्वासो विश्रान्तिस्थानं सर्गादिवत्कथासन्धिरतस्यान्तेऽप्यखिन्ना उच्छ्वासान्तरकरणक्षमाः । अविच्छिन्नप्रति- माना इति यावत् । गुरुत्वादबहुवचनम् । 'नान्त्यन्ते ह्याम्बुघेर्वक्त्रम्' इति वक्त्रलक्षणम्' ।
नवीन अर्थ (जिसे अबतक किसी कवि ने नहीं लिखा हो, अर्थात् चमत्कारी), अग्राम्य जाति (अर्थात् स्वभावोक्ति) अक्लिष्ट (बिना माथापच्ची के ही समझ में आ जाने वाली) श्लेष, सुबोध रस एवं आकर्षक शब्दों का संचयन—इन सब गुणों का एकत्र (किसी काव्य में) होना कठिन है ॥ ८ ॥ उस कवि के काव्य से क्या, जिसकी वाणी सब प्रकार के वृत्तान्तों वाली महाभारत की कथा के समान तीनों जगत् में व्याप्त नहीं होती ॥ ९ ॥ जो उच्छ्वास के बाद भी नहीं थकते और जिनके मुख में सरस्वती विराजमान है
१. अग्राम्याः । २. विकटो । ३. प्राप्नोति दिगन्तरम् ।