हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 47, कुल 184 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ५ उत्पादका न बहवः कवयः शरभा इव ॥ ५ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्याताः सतां मध्ये कविश्चोरो विभाव्यते ॥ ६ ॥ श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडेम्बरम् ॥ ७ ॥ यति । उत्पादना नवनिर्माणकारिणः, ऊर्ध्वपादाश्च । शरभा हि प्राणिभेदाः । अष्ट- पादा एते । श्वजातीया इति केचित् ॥ ५ ॥ अन्येति । कविश्चोरः सहृदयानां मध्येऽनाख्यातः न कथितोऽपि ज्ञायते । न आ समन्तात्ख्यातः, अपि तु किञ्चित्प्रथितो वा । अन्ये पूर्वकविनिबद्धविलक्षणा ये वर्णा अक्षराणि तेषां रचनेन बन्धचिह्नं श्रीलक्ष्मीप्रभृतिरचनालिङ्गम् । अन्ये तु भाषा- लंकारप्रभृतिबन्धचिह्नमाहुः । अथ च सतां साधूनां मध्ये चौरो लक्ष्यते । कीदृक् ? न ना अना कापुरुषः अख्यातोऽप्रसिद्धः । केन ? अन्यः प्राक्तनच्छायाव्यतिरिक्त- स्त्रासकृतः पाण्डिमादिवर्णो मुखरागविशेषस्तत्परिवर्तनेन । यद्वा—शूद्रत्वे सति द्विजादिवर्णाश्रयेण । स्वजात्युचितस्य स्वभावस्य त्यक्तुमशक्यत्वाद्भावप्रकटनमवश्य- मेव भवति । यतो बन्धः शृङ्खलादिकृतो ग्रन्थिस्तच्चिह्नं त्वग्दूषणादि ॥ ६ ॥ श्लेषेत्यादि । मात्रकपदेन श्लेषयमकाद्यलंकारशून्यत्वं दर्शयति । अक्षरेत्यादि- नार्थविशेषाभावं प्रसादादिगुम्फनाभावं चाख्याति । एतदुक्तं भवति—क्वचित्कश्चिद् गुणोऽपि भवति । स च भवन्नपि न सहृदयजनावर्जक इति । अमुनैवाभिप्रायेण नव इत्यादीनि प्रत्येकं विशेषणपदानि वक्ष्यति ॥ ७ ॥ जगत् में बहुत नहीं हैं ॥ ५ ॥ सहृदय जनों के बीच अप्रसिद्ध कवि दूसरे कवि के वर्णों को बदल देने से एवं निर्माण के चिह्नों को छिपाने से चोर समझा जाता है, क्योंकि चोर भी लोगों के बीच मुख के अक- स्मात् फीके पड़ जाने से और हाथों पर लगे हुए बेड़ी के दागों को छिपाने से पहचान लिया जाता है ॥ ६ ॥ उत्तरी क्षेत्र के कवियों की रचना श्लेष-प्रधान होती है । पश्चिमी क्षेत्र के कवि प्रधान रूप से अर्थाडम्बर में लगे रहते हैं । दाक्षिणात्य कवि उत्प्रेक्षा करने में निपुण होते हैं और गौड़- देशीय ( प्राच्य ) कवियों की रचना में अक्षरमात्र का प्राचुर्य रहता है ॥ ७ ॥ १. डम्बरः ।