हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 53, कुल 184 में से
संदर्भ में पढ़ेंजयति¹ ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः² । सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ २१ ॥ वत्काव्यमविद्याव्याधिभेषजम् । आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥' इति । सुवर्णघटना शोभनाक्षररचना । प्रतिपादकैर्विवक्षिताभिधायकैः । शय्यापक्षे-सुखं यः प्रबोधः स्वापादुरुत्थानम् । सुवर्णघटना हेमयोजना । प्रतिपादकैः खट्वाया उत्थापकैः । तदा पादानां प्रतिच्छन्दाः प्रतिपादकाः पुरुषयत्नोत्थापिताः पादमुद्रास्तैः । अत्र च शोभनो वर्णोऽलक्तादिकृतः ॥ २० ॥ इदानीं यमुद्दिश्येयमाख्यायिका क्रियते तस्य 'तथापि नृपतेर्भक्त्या' इत्यनेन नृपतिशब्देन सामान्येन निर्देशं कृत्वा विशेषेणाह—जयतीत्यादि । ज्वलन्दोप्रतया प्रसरन्, प्रताप एव ज्वलनस्तं प्राति पूरयति य आकारस्तेन कृता जगति रक्षा येन सः । सकलानां प्रणयिनां ये मनोरथास्तत्सिद्धौ श्रियां पर्वतो गिरिः । श्रियस्तत्र कटी- भूता इव स्थिता इति यावत् । यद्वा—यथा पर्वतस्थः कश्चिद्दुरभिभवः, तद्वद्वक्षस्या श्रीरिति । अथ च श्रीपर्वताख्यो गिरिरोहगेव । तथा च ज्वलत्प्रकृष्टतापो यो ज्वलनो 'जठराग्निः स एव निषेधकत्वात्प्राकारः सालस्तेन कृता मुक्तेर्विघ्नहेतुतया जगतो भूलोकस्य रक्षा येन सः । अन्यत्रोत्सादनं तद्यावत् । अन्ये तु—त्रिपुरदाहे यो विघ्नमकरोद्गणेशस्तदा हरेण ज्वलत्प्रकृष्टतापो ज्वलनप्रकारो निर्मितः । तेन तत्र रक्षा विधीयत इत्याहुः । ज्वलनप्राकारश्च द्वौ मुद्रारूपौ मन्त्रविशेषौ स्तः, ताभ्यां कृतजगद्रक्ष इति केचित् । प्रणयिनः सिद्धिकामाः । हर्षः कथानायकः । इतरत्र- हर्षकारितया हर्षः । सर्वत्र च परमार्थतो हर्ष एव जयति । तस्यैवाभिलषणीय- त्वात्स एव काव्येन क्रियत इति ध्वनयति ॥ २१ ॥ सम्राट् हर्ष की विजय हो, जो चारों ओर प्रज्वलित प्रतापाग्नि की दीवार बनाकर सारे जगत् की रक्षा करते हैं और जो समस्त प्रियजनों के मनोरथ सिद्ध करने में †श्रीपर्वत के सदृश हैं ॥ २१ ॥ † श्रीपर्वत—यह आन्ध्र के गुण्टूर जिले का एक पर्वत है जो छठी-सातवीं शताब्दियों में मन्त्र-तन्त्र के लिए प्रसिद्ध था । मन्त्रयान का जन्मस्थान यही था । मालतीमाधव और कादम्बरी में भी इसका उल्लेख है । इसके सम्बन्ध में तत्कालीन समाज में यह प्रसिद्धि थी कि यहाँ हर प्रकार के मनोरथ सिद्ध हो जाते हैं । मालतीमाधव की एक भिक्षुणी सौदामिनी मन्त्र-तन्त्र सीखने श्रीपर्वत पर गई थी और कादम्बरी के जरद्द्राविड़ धार्मिक को भी श्रीपर्वत से सम्बन्धित अचम्भों की बहुत बातें याद थीं । १. जयत्युज्ज्वलप्र० जयज्ज्वलप्र० । २. प्रकार ।