हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 162, कुल 307 में से
संदर्भ में पढ़ें१४४ हठयोगप्रदीपिका न यावत् तत्त्वविज्ञानं न तावच्चित्तसंक्षयः । यावन्न चित्तोपशमो न तावत् तत्त्ववेदनम् ॥ यावन्न वासनानाशस्तावत् तत्त्वागमः कुतः । यावन्न तत्त्वसंप्राप्तिर्न तावद् वासनाक्षयः ॥ तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः ॥ त्रय एते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः । तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समैः शतैः ॥' २२ ॥ मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ॥ २३ ॥ मन इति । यत्र यस्मिन्नाधारे मनो विलीयते पवनस्तत्र तस्मिन्नाधारे लीयते । यत्र यस्मिन्नाधारे पवनो लीयते तत्र तस्मिन्नाधारे मनो विलीयत इत्यन्वयः ॥ २३ ॥ दुग्धाम्बुवत् संमिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि । यतो मरुत् तत्र मनःप्रवृत्ति- र्यतो मनस्तत्र मरुत्प्रवृत्तिः ॥ २४ ॥ दुग्धाम्बुवदिति । दुग्धाम्बुवत क्षीरनीरवत् संमिलितौ सम्यक् मिलितौ तावुभौ द्वावपि मानसमारुतौ मानसं च मारुतश्च मानसमारुतौ चित्तप्राणौ तुल्यक्रियौ तुल्या समा क्रिया प्रवृत्तिर्ययोस्तादृशौ भवतः । तुल्यक्रियत्वमेवाह— यत इति । यतः यत्र सार्वविभक्तिकस्तसिः । यस्मिन् चक्रे मरुद् वायुः प्रवर्तते