भारतकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

१४४ हठयोगप्रदीपिका न यावत् तत्त्वविज्ञानं न तावच्चित्तसंक्षयः । यावन्न चित्तोपशमो न तावत् तत्त्ववेदनम् ॥ यावन्न वासनानाशस्तावत् तत्त्वागमः कुतः । यावन्न तत्त्वसंप्राप्तिर्न तावद् वासनाक्षयः ॥ तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः ॥ त्रय एते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः । तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समैः शतैः ॥' २२ ॥ मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ॥ २३ ॥ मन इति । यत्र यस्मिन्नाधारे मनो विलीयते पवनस्तत्र तस्मिन्नाधारे लीयते । यत्र यस्मिन्नाधारे पवनो लीयते तत्र तस्मिन्नाधारे मनो विलीयत इत्यन्वयः ॥ २३ ॥ दुग्धाम्बुवत् संमिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि । यतो मरुत् तत्र मनःप्रवृत्ति- र्यतो मनस्तत्र मरुत्प्रवृत्तिः ॥ २४ ॥ दुग्धाम्बुवदिति । दुग्धाम्बुवत क्षीरनीरवत् संमिलितौ सम्यक् मिलितौ तावुभौ द्वावपि मानसमारुतौ मानसं च मारुतश्च मानसमारुतौ चित्तप्राणौ तुल्यक्रियौ तुल्या समा क्रिया प्रवृत्तिर्ययोस्तादृशौ भवतः । तुल्यक्रियत्वमेवाह— यत इति । यतः यत्र सार्वविभक्तिकस्तसिः । यस्मिन् चक्रे मरुद् वायुः प्रवर्तते

हठयोगप्रदीपिका १४५ तत्र तस्मिन् चक्रे मनःप्रवृत्तिः मनसः प्रवृत्तिर्भवति । यतो यस्मिन् चक्रे मनः प्रवर्तते तत्र तस्मिन् चक्रे मरुत्प्रवृत्तिः, वायोः प्रवृत्तिर्भवतीत्यर्थः । तदुक्तं वासिष्ठे— ‘अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी । कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते । कुरुतश्च विनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥’ इति ॥ २४ ॥ तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरपरप्रवृत्तिः । अध्वस्तयोश्चेन्द्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्य सिद्धिः ॥ तत्रेति । तत्र तयोर्मानसमारुतयोर्मध्ये एकस्य मानसस्य मारुतस्य वा नाशाल्लयादपरस्यान्यस्य मारुतस्य मानसस्य वा नाशो लयो भवति । एकप्रवृत्तेरेकस्य मानसस्य मारुतस्य वा प्रवृत्तेर्व्यापारादपरप्रवृत्तिरपरस्य मारुतस्य मानसस्य वा प्रवृत्तिर्व्यापारो भवति । अध्वस्तयोरलीनयोर्मानसमारुतयोः सतोरिन्द्रियवर्ग- वृत्तिरिन्द्रियसमुदायस्य स्वस्वविषये प्रवृत्तिर्भवति । प्रध्वस्तयोः प्रलीनयोस्तयोः सतोर्मोक्षपदस्य मोक्षाख्यपदस्य सिद्धिर्निष्पत्तिर्भवति । तयोर्लये पुरुषस्य स्व- रूपेऽवस्थानमित्यर्थः । ‘तत्रापि साध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन । मनोविनाशस्तु गुरोः प्रसादान्निमेषमात्रेण सुसाध्य एव ॥’ योगबीजे मूलश्लोकस्यायमुत्तरः श्लोकः ॥ २५ ॥ रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ २६ ॥ 10

१४६ हठयोगप्रदीपिका रसस्येति । रसस्य पारदस्य मनसो मानसस्य स्वभावतः स्वभावचञ्चलत्वं चाञ्चल्यमस्ति । रसः पारदो बद्धश्चेन्मनश्चित्तं बद्धं भवति । ततो भूतले पृथिवीतले किं न सिद्धयति ? सर्वं सिद्ध्यतीत्यर्थः ॥ २६ ॥ मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ २७ ॥ तदेवाह—मूर्च्छित इति । ओषधिविशेषयोगेन गतचापलो रसो मूर्च्छितः । कुम्भकान्ते रेचकनिवृत्तौ वायुर्मूच्छित इत्युच्यते । हे पार्वतीति पार्वतीं संबोध्येश्वरवाक्यम् । मूर्च्छितो रसः पारदः, वायुः प्राणश्च व्याधीन् रोगान् हरते नाशयति । भस्मीभूतो रसः, ब्रह्मरन्ध्रे लीनो वायुश्च मृतः स्वयमात्मना स्वसामर्थ्ये- नेत्यर्थः । जीवयति दीर्घकालं जीवनं करोति । क्रियाविशेषेण गुटिकाकारकृतो रसो बद्धः, भ्रूमध्यादौ धारणाविशेषेण धृतो वायुश्च बद्धः, खेचरतामाकाशगतिं धत्ते विधत्ते करोतीत्यर्थः । तदुक्तं गोरक्षकशतके (72)— ‘यद्भिन्नाञ्जनपुञ्जसंनिभमिदं वृत्तं भ्रुवोरन्तरे तत्त्वं वायुमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विलाप्य पञ्चघटिकं चित्तान्वितं धारये- देशा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥’ इति ॥ २७ ॥ मनः स्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्यात् सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥ २८ ॥

हठयोगप्रदीपिका १४७ मनःस्थैर्य इति । मनसः स्थैर्ये सति वायुः प्राणः स्थिरो भवेत् । ततो वायुस्थैर्याद् बिन्दुर्वैर्यं स्थिरो भवेत् । बिन्दोः स्थैर्यात् सदा सत्त्वं बलं पिण्डस्थैर्यं देहस्थैर्यं प्रजायते ॥ २८ ॥ इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः । मारुतस्य लयो नाथः स लयो नादमाश्रितः ॥ २९ ॥ इन्द्रियाणामिति । इन्द्रियाणां श्रोत्रादीनां मनोऽन्तःकरणं नाथः प्रवर्तकः । मनोनाथो मनसो नाथो मारुतः प्राणः । मारुतस्य प्राणस्य लयो मनोविलयो नाथः । स लयो मनोलयः नादमाश्रितो नादे मनो लीयत इत्यर्थः ॥ २९ ॥ सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे । मनःप्राणलये कश्चिदानन्दः संप्रवर्तते ॥ ३० ॥ सोऽयमिति । सोऽयमेव चित्तलय एव मोक्षाख्यो मोक्षपदवाच्यः । मतान्तरेऽन्यमते मास्तु वा । चित्तलयस्य सुषुप्तावपि सत्त्वान्मनःप्राणयोर्लये सति कश्चिदनिर्वाच्य आनन्दः संप्रवर्तते सम्यक् प्रवृत्तो भवति । अनिर्वा- च्यानन्दाविर्भावे जीवन्मुक्तिसुखं भवत्येवेति भावः ॥ ३० ॥ प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः । निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ॥ ३१ ॥ प्रनष्टेति । श्वासश्च निश्वासश्च श्वासनिश्वासौ प्रनष्टौ लीनौ श्वासनिश्वासौ यस्मिन् स तथा बाह्यवायोरन्तः प्रवेशं श्वासः अन्तः स्थितस्य वायोर्बहिर्निःसरणं निश्वासः । प्रध्वस्तः प्रकर्षेण ध्वस्तो नष्टो विषयाणां शब्दादीनां ग्रहो ग्रहणं यस्मिन्, निर्गता चेष्टा कायक्रिया यस्मिन्, निर्गतो विकारोऽन्तः-

१४८ हठयोगप्रदीपिका करणक्रिया यस्मिन् एतादृशो योगिनां लयोऽन्तःकरणवृत्तेर्ध्येयाकारापत्तिर्जयति सर्वोत्कर्षेण वर्तते ॥ ३१ ॥ उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि जायते वागगोचरः ॥ ३२ ॥ उच्छिन्नेति । उच्छिन्ना नष्टाः सर्वे संकल्पा मनःपरिणामा यस्मिन् स तथा निर्गतः शेषो येभ्यस्तानि निःशेषाण्यशेषाणि चेष्टितानि यस्मिन् स तथा स्वेनैवावगन्तुं बोद्धुं शक्यः स्वावगम्यः वाचामगोचरो विषयः कोऽपि विलक्षणो लयः जायते योगिनां प्रादुर्भवति ॥ ३२ ॥ यत्र दृष्टिर्लयस्तत्र भूतेन्द्रियसनातनी । सा शक्तिर्जीवभूतानां द्वे अलक्ष्ये लयं गते ॥ ३३ ॥ यत्र दृष्टिरिति । यत्र यस्मिन् विषये ब्रह्मणि दृष्टिरन्तःकरणवृत्तिस्तत्रैव लयो भवति । भूतानि पृथिव्यादीनि इन्द्रियाणि श्रोत्रादीनि सनातनानि शाश्वतानि यस्यां सा सत्कार्यवादेऽविद्यायां कार्यजातस्य सत्त्वात् । जीवभूतानां प्राणिनां शक्तिरविद्या इमे द्वे अलक्ष्ये ब्रह्मणि लयं गते योगिनामिति शेषः ॥ ३३ ॥ लयो लय इति प्राहुः कीदृशं लयलक्षणम् । अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः ॥ ३४ ॥ लय इति । लयो लय इति प्राहुर्वदन्ति बहवः । लयस्य लक्षणं लयस्व- रूपं कीदृशमिति प्रश्नपूर्वकं लयस्वरूपमाह—अपुनरिति । अपुनर्वासनोत्थानात् पुनर्वासनोत्थानाभावाद् विषयविस्मृतिर्विषयाणां शब्दादीनां ध्येयाकारस्य विषयस्य वा विस्मृतिर्लयो लयशब्दार्थ इत्यर्थः ॥ ३४ ॥

हठयोगप्रदीपिका १४९ वेदशास्त्रपुराणानि सामान्यगणिका इव । एकैव शांभवी मुद्रा गुप्ता कुलवधूरिव ॥ ३५ ॥ वेदेति । वेदाश्चत्वारः शास्त्राणि षट् पुराणान्यष्टादश सामान्य- गणिका इव वेश्या इव । बहुपुरुषगम्यत्वात् । एका शांभवी मुद्रैव कुलवधूरिव कुलस्त्रीव गुप्ता । पुरुषविशेषगम्यत्वात् ॥ ३५ ॥ अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता ॥ ३६ ॥ चित्तलयाय प्राणलयसाधनीभूतां मुद्रां विवक्षुस्तत्र शांभवीं मुद्रामाह— अन्तर्लक्ष्यमिति । अन्तः आधारादिब्रह्मरन्ध्रान्तेषु चक्रेषु मध्ये स्वाभिमते चक्रे लक्ष्यमन्तःकरणवृत्तिः । बहिर्देहाद् बहिःप्रदेशे दृष्टिः चक्षुःसंबन्धः । कीदृशी दृष्टिः ? निमेषोन्मेषवर्जिता निमेषः पक्ष्मसंयोगः उन्मेषः पक्ष्मसंयोगविश्लेषः ताभ्यां वर्जिता रहिता चित्तस्य ध्येयाकारावेशे निमेषोन्मेषवर्जिता दृष्टिर्भवति । सोक्तैषा मुद्रा शांभवी शंभोरियं शांभवी शिवप्रिया शिवाविर्भावजनिका वा भवति । कीदृशी ? वेदशास्त्रेषु गोपिता, वेदेषु ऋगादिषु शास्त्रेषु सांख्य- पातञ्जलादिषु गोपिता रक्षिता ॥ ३६ ॥ अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि । मुद्रेयं खलु शांभवी भवति सा लब्धा प्रसादाद् गुरोः शून्याशून्यविलक्षणं स्फुरति तत् तत्त्वं पदं शांभवम् ॥३७॥ शांभवीं मुद्रामभनीय दर्शयति—अन्तर्लक्ष्येति । यदा यस्यामवस्था- यामन्तः अनाहतपद्मादौ यल्लक्ष्यं सगुणेश्वरमूर्त्यादिकं तत्त्वमस्यादिवाक्यलक्ष्यं

१५० हठयोगप्रदीपिका जीवेश्वराभिन्नमहं ब्रह्मास्मीति वाक्यार्थभूतं ब्रह्म वा तस्मिन् विलीनौ विशेषेण लीनौ चित्तपवनौ मनोमारुतौ यस्य स तथा योगी वर्तते। निश्चलतारया निश्चला स्थिरा तारा कनीनिका यस्यां तादृश्या दृष्ट्या बहिर्देहाद् बहिःप्रदेशे पश्यन्नपि चक्षुःसंबंधं कुर्वन्नपि अपश्यन् बाह्यविषयग्रहणमकुर्वन् वर्तते आस्ते । खल्विति वाक्यालंकारे । इयमुक्ता शांभवीमुद्रा शांभवीनामिका मुद्रयति क्लेशानिति मुद्रा, गुरोर्देशिकस्य प्रसादात् प्रीतिपूर्वकादनुग्रहाल्लब्धा प्राप्ता चेत् तदिदमिति वक्तुमशक्यं शांभवं शांभव्या इदं शांभवम्, शांभवीमुद्रायां भासमानं पदं पद्यते गम्यते योगिभिरिति पदमात्मस्वरूपं शून्या- शून्यविलक्षणं ध्येयाकारवृत्तेः सद्भावाच्छून्यविलक्षणं तस्या अपि भानाभावाद- शून्यविलक्षणं तत्त्वं वास्तविकं वस्तु स्फुरति प्रतीयते । तथा चोक्तम्— ' अन्तर्लक्ष्यमनन्यधीरविरतं पश्यन् मुदा संयमी दृष्टिमुन्मेषनिमेषवर्जितमियं मुद्रा भवेच्छांभवी । गुप्तेयं गिरिशेन तन्त्रविदुषा तन्त्रेषु तत्त्वार्थिना- मेषा स्याद् यमिनां मनोलयकरी मुक्तिप्रदा दुर्लभा ॥' १ ॥ ऊर्ध्वदृष्टिरधोदृष्टिरूर्ध्ववेधो ह्यधःशिराः । राधायन्त्रविधानेन जीवन्मुक्तो भवेत् क्षितौ ॥' २ ॥ ३७ ॥ श्रीशांभव्याश्च खेचर्या अवस्थाधामभेदतः । भवेच्चित्तलयानन्दः शून्ये चित्सुखरूपिणि ॥ ३८ ॥ श्रीशांभव्या इति । श्रीशांभव्याः श्रीमत्याः शांभवीमुद्रायाः खेचरीमुद्रा- याश्चावस्थाधामभेदतः अवस्थावस्थितिर्धाम स्थानं तयोर्भेदाच्छांभव्यां बहिर्दृष्ट्या अवस्थितिः खेचर्यां भ्रूमध्यदृष्ट्यावस्थितिः । शांभव्यां हृदयं भावनादेशः, खेचर्यां भ्रूमध्य एव देशः । तयोर्भेदाभ्यां शून्ये देशकालवस्तुपरिच्छेदशून्ये

हठयोगप्रदीपिका १५१ सजातीयविजातीयस्वगतभेदशून्ये वा चित्सुखरूपिणि चिदानन्दस्वरूपिण्यात्मनि चित्तलयानन्दो भवेत् स्यात् । श्रीशांभवीखेचर्योरवस्थाधामरूपसाधनांशे भेदः न तु चित्तलयानन्दरूपफलांश इति भावः ॥ ३८ ॥ तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद् भ्रुवौ । पूर्वयोगं मनो युञ्जन्नुन्मनीकारकः क्षणात् ॥ ३९ ॥ उन्मनीमुद्रामाह—तार इति । तारे नेत्रयोः कनीनिके ज्योतिषि तारयोर्नासाग्रे योजनात् प्रकाशमाने तेजसि संयोज्य संयुक्ते कृत्वा भ्रुवौ किंचित् स्वल्पमुन्नमयेदूर्ध्वं नमयेत्, पूर्वः पूर्वोक्तः ‘ अन्तर्लक्ष्यं बहिर्दृष्टिः ’ (IV. 36) इत्याकारको योगो युक्तिर्यस्मिन् तत्तादृशं मनोऽन्तःकरणं युञ्जन् युक्तं कुर्वन् योगी क्षणान्मुहूर्तादुन्मनीकारक उन्मन्यवस्थाकारको भवति ॥ ३९ ॥ केचिदागमजालेन केचिन्निगमसंकुलैः । केचित् तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ ४० ॥ उन्मनीमन्तरा अन्यस्तरणोपायो नास्तीत्याह—केचिदिति । केचिच्छास्त्र- तन्त्रादिविदः, आगच्छन्ति बुद्धिमारोहन्ति अर्था एभ्य इत्यागमाः शास्त्रतन्त्रा- दयस्तेषां जालैर्जालवद्बन्धनसाधनैस्तदुक्तैः फलैर्मुह्यन्ति मोहं प्राप्नुवन्ति । तत्रासक्ता बध्यन्त इति भावः । केचिद् वैदिका निगमसंकुलैर्निगमानां निगमोक्तानां संकुलैः फलबाहुल्यैर्मुह्यन्ति । केचिद् वैशेषिकादयस्तर्केण स्वकल्पितयुक्तिविशेषेण मुह्यन्ति । तारयतीति तारकस्तं तारकं तरणोपायं नैव जानन्ति । उक्तोन्मन्येव तरणोपायस्तं न जानन्तीत्यर्थः ॥ ४० ॥ अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षण- श्चन्द्रार्कावपि लीनतामुपनयन्निस्पन्दभावेन यः ।

१५२ हठयोगप्रदीपिका ज्योतीरूपमशेषबीजमखिलं देदीप्यमानं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ ४१ ॥ अर्धोन्मीलितेति । अर्धम् उन्मीलिते अर्धोन्मीलिते, अर्धोन्मीलिते लोचने येन सः, अर्धोद्घाटितलोचन इत्यर्थः । स्थिरं निश्चलं मनो यस्य स स्थिरमनाः, नासाया नासिकाया अग्रेऽग्रभागे नासिकायां द्वादशाङ्गुलपर्यन्ते वा दत्ते प्रहिते ईक्षणे येन स नासाग्रदत्तेक्षणः । तथाह वसिष्ठः-- 'द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलेऽम्बरे । संविद्दृशोः प्रशाम्यन्त्योः प्राणस्पन्दो निरुध्यते ॥' इति । निस्पन्दस्य निश्चलस्य भावो निस्पन्दभावः कायेन्द्रियमनसां निश्चलत्वं तेन चन्द्रार्कौ चन्द्रसूर्यावपि लीनतां लीनस्य भावो लीनता लयस्तामुपनयन् प्रापयन् कायेन्द्रियमनसां निश्चलत्वेन प्राणसंचारमपि स्तम्भयन्नित्यर्थः । तदुक्तं प्राक् — 'मनो यत्र विलीयेत' (IV. 23) इत्यादिपूर्वोक्तविशेषणसंपन्नो योगी ज्योतीरूपं ज्योतिरिवाखिलप्रकाशकं रूपं यस्य स तथा तमशेषबीजमाकाशाद्युत्पत्तिद्वारा सर्वकारणमखिलं पूर्णं देदीप्यमानमतिशयेन दीप्यत इति देदीप्यमानः तं तथा स्वप्रकाशं परं कायेन्द्रियमनसां साक्षिणं तत्त्वमनारोपितं वास्तविकमित्यर्थः । तदिदमिति वक्तुमशक्यं, पद्यते गम्यते योगिभिरिति पदं परमं सर्वोत्कृष्टं वस्तु आत्मस्वरूपं एति प्राप्नोति । उन्मन्यवस्थायां स्वस्वरूपावस्थितो योगी भवतीत्यर्थः । अत्राधिकं किं वाच्यम् । अपरं वस्तु न प्राप्नोतीत्यत्र किं वक्तव्यमित्यर्थः ॥ ४१ ॥ दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् । सर्वदा पूजयेल्लिङ्गं दिवारात्रिनिरोधतः ॥ ४२ ॥

हठयोगप्रदीपिका १५३ उन्मनीभावनायाः कालनियमाभावमाह—दिवा नेति । दिवा सूर्य- संचारे लिङ्गं सर्वकारणमात्मानम् । ‘एतस्मादात्मन आकाशः संभूतः’ (Tai. Up., II. 1. 1) इत्यादिश्रुतेः । न पूजयेत् न भावयेत् । ध्यानमेवात्मपूजनम् । तदुक्तं वासिष्ठे— ‘ध्यानेोपहार एवात्मा ध्यानमस्य महर्चनम् । विना तेनेतरेणात्मा लभ्यत एव नो ॥’ इति । रात्रौ चन्द्रसंचारे च नैव पूजयेन्नैव भावयेत् । चन्द्रसूर्यसंचारे चित्तस्थैर्याभावात् । ‘चले वाते चलं चित्तम्’ (II. 2) इत्युक्तत्वात् । दिवारात्रिनिरोधतः सूर्यचन्द्रौ निरुध्य । ल्यब्लोपे पञ्चमी । तस्यास्तसिल् । सर्वदा सर्वस्मिन् काले लिङ्गम् आत्मानं पूजयेद् भावयेत् । सूर्यचन्द्रयोर्निरोधे कृते सुषुम्नान्तर्गते प्राणे मनःस्थैर्यात् । तदुक्तम्—‘सुषुम्नान्तर्गते वायौ मनःस्थैर्यं प्रजायते’ इति ॥ ४२ ॥ अथ खेचरी— सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः । तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः ॥ ४३ ॥ खेचरीमाह—सव्येति । सव्यदक्षिणनाडीस्थो वामतदितरनाडीस्थो मा- रुतो वायुर्यत्र मध्ये चरति यस्मिन् मध्यप्रदेशे गच्छति तस्मिन् स्थाने तस्मिन् प्रदेशे खेचरी मुद्रा तिष्ठते स्थिरा भवति । ‘प्रकाशनस्थेयाख्ययोश्च’ (Pāṇ. 1. 3. 32) इत्यात्मनेपदम् । न संशयः उक्तेऽर्थे संदेहो नास्तीत्यर्थः ॥ ४३ ॥ इडापिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४४ ॥

१५४ हठयोगप्रदीपिका इडापिङ्गलयोरिति । इडापिङ्गलयोः सव्यदक्षिणनाड्योर्मध्ये यच्छून्यं खं कर्तृ अनिलं प्राणवायुं यत्र ग्रसेत् । शून्ये प्राणस्य स्थिरीभाव एव ग्रासः । तत्र तस्मिन् शून्ये खेचरी मुद्रा तिष्ठते । पुनः पुनः सत्यमिति योजना ॥ ४४ ॥ सूर्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः । संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी ॥ ४५ ॥ सूर्याचन्द्रमसोरिति । सूर्याचन्द्रमसोरिडापिङ्गलयोर्मध्ये निरालम्बं यदन्त- रमवकाशस्तत्र । पुनः पादपूरणे । व्योम्नां खानां चक्रे समुदाये । भ्रूमध्ये सर्वखानां समन्वयात् । तदुक्तं ‘पञ्चस्रोतः समन्वितम्’ (III. 53) इति । या संस्थिता सा मुद्रा खेचरी नाम ॥ ४५ ॥ सोमाद् यत्रोदिता धारा साक्षात् सा शिववल्लभा । पूरयेदतुलां दिव्यां सुषुम्नां पश्चिमे मुखे ॥ ४६ ॥ सोमादिति—सोमाच्चन्द्राद् यत्र यस्यां खेचर्यां धारा अमृतधारा उदितोद्गता सा खेचरी साक्षाच्छिववल्लभा शिवस्य प्रियेति पूर्वेणान्वयः । अतुलां निर्मलां निरुपमां दिव्यां सर्वनाड्युत्तमां सुषुम्नां पश्चिमे मुखे पूरयेत् । जिह्वयेति शेषः ॥ ४६ ॥ पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्युन्मनी संप्रजायते ॥ ४७ ॥ पुरस्ताच्चैवेति । पुरस्ताच्चैव पूर्वत एव पूर्येत । सुषुम्नां प्राणेनेति शेषः । यदि तर्हि निश्चितासंदिग्धा खेचरी खेचर्याख्या मुद्रा भवेदिति । यदि तु पुरस्तात् प्राणेन न पूर्येत जिह्वामात्रेण पश्चिमतः पूर्येत तर्हि मूढावस्थाजनिका न

हठयोगप्रदीपिका १५५ निश्चिता खेचरी स्यादिति भावः । खेचरीमुद्राप्यभ्यस्ता सती उन्मनी संप्रजायते चित्तस्य ध्येयाकारावेशात् तुर्यावस्था भवतीत्यर्थः ॥ ४७ ॥ भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते ॥ ४८ ॥ भ्रुवोरिति । भ्रुवोर्मध्ये भ्रुवोरन्तराले शिवस्थानं शिवस्येश्वरस्य स्थानं शिवस्य सुखरूपस्यात्मनो वा स्थानमस्तीति शेषः । तत्र तस्मिन् शिवे मनो लीयते । शिवाकारवृत्तिप्रवाहवद् भवति तच्चित्तलयरूपं तुर्यं पदं जाग्रत्स्वप्नसुषुप्तिभ्यश्चतुर्था- वस्थाख्यं ज्ञातव्यम् । तत्र तस्मिन् पदे कालो मृत्युर्न विद्यते । यद्वा सूर्यचन्द्र- योर्निरोधादायुःक्षयकारकः कालः समयो न विद्यत इत्यर्थः । तदुक्तम्— ‘भोक्त्री सुषुम्ना कालस्य’ (IV. 17) इति ॥ ४८ ॥ अभ्यसेत् खेचरीं तावद् यावत् स्याद् योगनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ॥ ४९ ॥ अभ्यसेदिति । तावत् खेचरीं मुद्रामभ्यसेत, यावद्योगनिद्रितः । योगः सर्ववृत्तिनिरोधः सैव निद्रा योगनिद्रास्य संजाता इति योगनिद्रितः तादृशः स्यात् । संप्राप्ता योगनिद्रा येन स संप्राप्तयोगनिद्रस्तस्य कदाचन कस्मिंश्चिदपि समये कालो मृत्युर्नास्ति ॥ ४९ ॥ निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् । सबाह्याभ्यन्तरे व्योम्नि घटवत् तिष्ठति ध्रुवम् ॥ ५० ॥ निरालम्बमिति । यो निरालम्बमालम्बनशून्यं मनः कृत्वा किंचिदपि न चिन्तयेत् खेचरीमुद्रायां जायमानायां ब्रह्माकारामपि वृत्तिं परवैराग्येण परित्य- जेदित्यर्थः । स योगी बाह्याभ्यन्तरे बाह्ये बहिर्भवे आभ्यन्तरेऽन्तर्भवे च

१५६ हठयोगप्रदीपिका व्योम्याकाशे घटवत् तिष्ठति। ध्रुवं निश्चितमेतत्। यथाकाशे घटो बहिरन्त- श्चाकाशपूर्णो भवति तथा खेचर्यामालम्बनपरित्यागेन योगी ब्रह्मणा पूर्णस्ति- ष्ठतीत्यर्थः ॥ ५० ॥ बाह्यवायुर्यथा लीनस्तथा मध्यो न संशयः। स्वस्थाने स्थिरतामेति पवनो मनसा सह ॥ ५१ ॥ बाह्येति। बाह्यो देहाद् बहिर्भवो वायुर्यथा लीनो भवति खेचर्याम्। तस्यान्तःप्रवृत्त्यभावात्। तथा मध्यो देहमध्यवर्ती वायुर्लीनो भवति। तस्य बहिःप्रवृत्त्यभावात्। न संशयः, अस्मिन्नर्थे संदेहो नास्तीत्यर्थः। स्थीयते स्थिरीभूयतेऽस्मिन्निति स्थानं स्वस्य प्राणस्य स्थानं स्थैर्याधिष्ठानं ब्रह्मरन्ध्रं तत्र मनसा चित्तेन सह पवनः प्राणः स्थिरतां निश्चलतामेति प्राप्नोति ॥ ५१ ॥ एवमभ्यस्यतस्तस्य वायुमार्गे दिवानिशम्। अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ५२ ॥ एवमुक्तप्रकारेण वायुमार्गे प्राणमार्गे सुषुम्नायामित्यर्थः। दिवानिशं रात्रिंदिवमभ्यस्यतोऽभ्यासं कुर्वतो योगिनोऽभ्यासाद् यत्र यस्मिन्नाधारे वायुः प्राणो जीर्यते क्षीयत लीयत इत्यर्थः। तत्रैव वायोर्लयाधिष्ठाने मनश्चित्तं लीयते जीर्यत इत्यर्थः ॥ ५२ ॥ अमृतैः प्लावयेद् देहमापादतलमस्तकम्। सिद्ध्यत्येव महाकायो महाबलपराक्रमः ॥ ५३ ॥ इति खेचरी ॥ अमृतैरिति। अमृतैः सुषिरनिर्गतैः पादतलं च मस्तकं च पादतलमस्तकम्। 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (Pāṇ. II. 4. 2) इत्येकवद्भावः। पादतल-

हठयोगप्रदीपिका १५७ मस्तकमभिव्याप्येत्यापादतलमस्तकं देहमाप्लावयेदाप्लावितं कुर्यात् । महानुत्कृष्टः कायो यस्य स महाकायः महान्तौ बलपराक्रमौ यस्येत्येतादृशो योगी सिद्धयत्येव, अमृताप्लावनेन सिद्धो भवत्येव ॥ ५३ ॥ शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य धारयेत् परमं पदम् ॥ ५४ ॥ शक्तिरिति । शक्तिः कुण्डलिनी तस्या मध्ये मनः कृत्वा तस्यां मनो धृत्वा तदाकारं मनः कृत्वेत्यर्थः । शक्तिं मानसमध्यगां कृत्वा । शक्तिध्यानावेशाच्छक्ति- मनसोरत्यन्तैक्यं कृत्वा तेन कुण्डलीं बोधयित्वेति यावत् । 'प्रबुद्धा वह्नियोगेन मनसा मरुता सह ' इति गोरक्षोक्तेः (31) । मनसान्तःकरणेन मनः आलोक्य बुद्धिं मनसोऽवलोकनेन स्थिरीकृत्येत्यर्थः । परमं पदं सर्वोत्कृष्टं स्वरूपं धारयेद् धारणाविषयं कुर्यादित्यर्थः ॥ ५४ ॥ खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ५५ ॥ खमध्य इति । खमिव पूर्णं ब्रह्म खं तन्मध्ये आत्मानं स्वस्वरूपं कुरु । ब्रह्माहमिति भावयेत्यर्थः । आत्ममध्ये स्वस्वरूपे च खं पूर्णं ब्रह्म कुरु । अहं ब्रह्मेति च भावयेत्यर्थः । सर्वं च खमयं कृत्वा ब्रह्ममयं विभाव्य किमपि न चिन्तयेत् । अहं ब्रह्मेति ध्यानमपि परित्यजेदित्यर्थः ॥ ५५ ॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ ५६ ॥ एवं समाहितस्य स्वरूपे स्थितिमाह—अन्तःशून्य इति । अन्तः अन्तःकरणे शून्यः । ब्रह्मातिरिक्तवृत्तेरभावाद् द्वितीयशून्यः । बहिरन्तःकरणाद्

३. तृतीय उपदेश: मुद्रा, बन्ध व कुण्डलिनी-जागरण

१५८ हठयोगप्रदीपिका बहिरपि शून्यः । द्वितीयादर्शनात् । अम्बरे आकाशे कुम्भो घटो यथान्तर्बहिः- शून्यस्तद्वदन्तः अन्तःकरणे हृदाकाशे वा पूर्णः व्याप्तत्वाद् ब्रह्माकारवृत्तेः सद्भावाद् ब्रह्मसत्त्वाद्वा । बहिःपूर्णोऽन्तःकरणाद् बहिर्हृदाकाशाद् बहिर्वा पूर्णः । सत्त्या ब्रह्मातिरिक्तवृत्तेर्भावाद् ब्रह्मपूर्णत्वाद्वा । अर्णवे समुद्रे कुम्भो घटो यथा सर्वतो जलपूर्णो भवत्येवं समाधिनिष्ठो योगी ब्रह्मपूर्णो भवतीत्यर्थः ॥ ५६ ॥ बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तनम् । सर्वचिन्तां परित्यज्य न किंचिदपि चिन्तयेत् ॥ ५७ ॥ बाह्यचिन्तेति । समाहितेन योगिनेत्यध्याहारः । बाह्यचिन्ता बाह्यविषय- चिन्ता न कर्तव्या । तथैव बाह्यचिन्ताकरणवदान्तरचिन्तनमान्तराणां मनसा परिकल्पितानामाशामोदकसौधवाटिकादीनां चिन्तनं न कर्तव्यमिति लिङ्गवि- परिणामेनान्वयः । सर्वचिन्तां बाह्याभ्यन्तरचिन्तनं परित्यज्य किंचिदपि न चिन्तयेत् परवैराग्येणात्माकारवृत्तिमपि परित्यजेत् । तत्यागे स्वरूपावस्थितिरूपा जीवन्मुक्तिर्भवतीति भावः ॥ ५७ ॥ संकल्पमात्रकलनैव जगत् समग्रं संकल्पमात्रकलनैव मनोविलासः । संकल्पमात्रमतिमुत्सृज निर्विकल्प- माश्रित्य निश्चयम्वाप्नुहि राम शान्तिम् ॥ ५८ ॥ बाह्याभ्यन्तरचिन्तापरित्यागे शान्तिश्च भवतीत्यत्र वसिष्ठवाक्यं प्रमाण- यति—संकल्पेति । संकल्पो मानसिको व्यापारः स एव संकल्पमात्रं तस्य कलनैव रचनैवेदं दृश्यमानं समग्रं जगत् । बाह्यप्रपञ्चो मनोमात्रकल्पित इत्यर्थः । मनसो मानसस्य विलासो नानाविषयाकारकल्पना आशामोदकसौधवाटिकादि-

हठयोगप्रदीपिका १५९ कल्पनारूपो विलासः संकल्पमात्रकलनैव । मानसः प्रपञ्चोऽपि संकल्पमात्ररचनै- वेत्यर्थः । संकल्पमात्रे बाह्याभ्यन्तरप्रपञ्चे या मतिः सत्यत्वबुद्धिस्तामुत्सृज त्यज । तर्हि किं कर्तव्यमित्यत आह—निर्विकल्पेति । विशिष्टः कल्पो विकल्पः । आत्मनि कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वसजातीयविजातीयस्वगतभेददेशकालवस्तुपरिच्छेद - कल्पनारूपः, तस्मान्निष्क्रान्तो निर्विकल्पः आत्मा तमाश्रित्य धारणादिविषयं कृत्वा हे राम निश्चयमसंदिग्धं शान्तिं परमोपरतिमवाप्नुहि । ततः सुखमपि प्राप्स्यसीति भावः । तदुक्तं भगवता व्यतिरेकेण । 'न चाभावयतः शान्ति- रशान्तस्य कुतः सुखम्' (B.G. II. 66) इति ॥ ५८ ॥ कर्पूरमनले यद्वत् सैन्धवं सलिले यथा । तथा संधीयमानं च मनस्तत्त्वे विलीयते ॥ ५९ ॥ कर्पूरमिति । यद्वद् यथा अनलेऽग्नौ संधीयमानं संयोज्यमानं कर्पूरं विली- यते विशेषेण लीयते लीनं भवति । अग्न्याकारं भवति । यथा सलिले जले संधीय- मानं सैन्धवं लवणं विलीयते लवणाकारं परित्यज्य जलाकारं भवति तथा तद्वत् तत्त्वे आत्मनि संधीयमानं धार्यमाणं मनो विलीयते आत्माकारं भवति ॥ ५९ ॥ ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ ६० ॥ मनसो विलये जाते द्वैतमपि लीयत इत्याह त्रिभिः—ज्ञेयमिति । सर्वं सकलं ज्ञेयं ज्ञानाहं प्रतीतं च ज्ञातं च ज्ञानं च इदं सर्वं मन उच्यते । सर्वस्य मनःकल्पनामात्रत्वान्मनःशब्देनोच्यते । ज्ञानं ज्ञेयं च समं मनसो विलये मनसा सार्धं नष्टं यदि तर्हि द्वितीयकः द्वितीय एव द्वितीयकः पन्था मनोविषयो नास्ति । द्वैतं नास्तीति फलितार्थः ॥ ६० ॥

१६० हठयोगप्रदीपिका मनोदृश्यमिदं सर्वं यत्किंचित् सचराचरम् । मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते ॥ ६१ ॥ मनोदृश्यमिति । इदमुपलभ्यमानं यत्किंचिद् यत्किमपि चरं जङ्गममचरं स्थावरं चरं चाचरं च चराचरे ताभ्यां सह वर्तत इति सचराचरं यज्जगत् तत्सर्वं मनोदृश्यं मनसा दृश्यम् । मनःसंकल्पमात्रमित्यर्थः । मनःकल्पनासत्त्वे प्रतीतेस्तदभावे चाप्रतीतेर्भ्रम एव सर्वं जगत् । भ्रमस्य प्रातीतिकशरीरत्वात् । न च बौद्धमतप्रसङ्गः । भ्रमाधिष्ठानस्य ब्रह्मणः सत्यत्वाभ्युपगमात् । मनस उन्मनीभावाद् विलयाद् द्वैतं भेदः नैवोपलभ्यते नैव प्रतीयते । द्वैतभ्रमहेतोर्मनःसंकल्पस्याभावात् । हीति हेतावव्ययम् ॥ ६१ ॥ ज्ञेयवस्तुपरित्यागाद् विलयं याति मानसम् । मनसो विलये जाते कैवल्यमवशिष्यते ॥ ६२ ॥ ज्ञेयेति । ज्ञेयं ज्ञानविषयं यद्वस्तु सर्वं चराचरं यद् दृश्यं तस्य परित्यागान्नामरूपात्मकस्य तस्य परिवर्जनाद् मानसं विलयं याति सच्चिदानन्द- रूपात्माकारं भवति । मनसो विलये जाते सति कैवल्यं केवलस्यात्मनो भावः कैवल्यमवशिष्यते । अद्वितीयात्मस्वरूपमेव शिष्टं भवतीत्यर्थः ॥ ६२ ॥ एवं नानाविधोपायाः सम्यक् स्वानुभवान्विताः । समाधिमार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः ॥ ६३ ॥ एवमिति । एवम् 'अन्तर्लक्ष्यं बहिर्दृष्टिः' (IV. 36) इत्याद्युक्त- प्रकारेण महान् समाधिपरिशीलनशुद्ध आत्मान्तःकरणं येषां ते महात्मान- स्तैर्महात्मभिः पूर्वे च ते आचार्याश्च पूर्वाचार्या मत्स्येन्द्रादयस्तैः समाधे- श्चित्तवृत्तिनिरोधस्य मार्गाः प्राप्त्युपायाः कथिताः । कीदृशाः समाधिमार्गाः ?

हठयोगप्रदीपिका १६१ नानाविधोपायाः नानाविधा उपायाः साधनानि येषां ते तथा सम्यक् समीचीनतया संशयविपर्ययराहित्येन यः स्वानुरूप आत्मानुभवस्तेनान्विता युक्ताः ॥ ६३ ॥ सुषुम्नायै कुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥ ६४ ॥ सुषुम्नादिभ्यः कृतकृत्यस्ताः प्रणमति—सुषुम्नायै इति । सुषुम्ना मध्यनाडी तस्यै कुण्डलिन्यै आधारशक्त्यै चन्द्राद् भ्रूमध्यस्थाज्जन्म यस्यास्तस्यै सुधायै पीयूषाय मनोन्मन्यै तुर्यावस्थायै चिच्चैतन्यमात्मा स्वरूपं यस्याः सा तथा तस्यै महती जडानां कायेन्द्रियमनसां चैतन्यसंपादकत्वात् सर्वोत्तमा या शक्तिश्चिच्छक्तिः पुरुषरूपा तस्यै । तुभ्यमिति प्रत्येकं संबध्यते । नमः प्रह्वीभावोऽस्तु ॥ ६४ ॥ अशक्यतत्त्वबोधानां मूढानामपि संमतम् । प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते ॥ ६५ ॥ नानाविधान् समाध्युपायानुक्त्वा नादानुसंधानरूपं मुख्योपायं प्रतिजा- नीते—अशक्येति । अव्युत्पन्नत्वादशक्यस्तत्त्वबोधस्तत्त्वज्ञानं येषां ते तथा तेषां मूढानामनधीतानां संमतम् । अपिशब्दात् किमुताधीतानामिति गम्यते । गोरक्षनाथेन प्रोक्तमित्यनेन महदुक्तत्वादुपादेयत्वं गम्यते । नादस्यानाहत- ध्वनेरुपासनमनुसंधानरूपं सेवनमुच्यते कथ्यते ॥ ६५ ॥ श्रीआदिनाथेन सपादकोटिलयप्रकाराः कथिता जयन्ति । नादानुसंधानकमेकमेव मन्यामहे मुख्यतमं लयानाम् ॥ ६६ ॥ 11

१६२ हठयोगप्रदीपिका श्रीआदिनाथेनेति । श्रीआदिनाथेन शिवेन कथिताः प्रोक्ताः पादेन चतुर्थांशेन सह वर्तमानाः कोटिसंख्याका लयप्रकाराश्चित्तलयसाधनभेदा जयन्ति, उत्कर्षेण वर्तन्ते । वयं तु नादानुसंधानकं नादानुचिन्तनमेव एकं केवलं लयानां लयसाधनानां मध्ये मुख्यतममतिशयेन मुख्यं मन्यामहे जानीमहे । उत्कृष्टांनां लयसाधनानां मध्ये उत्कृष्टतमत्वाद् गोरक्षाभिमतत्वादस्मदभिमतत्वाच्च नादानुसंधानमेव अवश्यं विधेयमिति भावः ॥ ६६ ॥ मुक्तासने स्थितो योगी मुद्रां संधाय शांभवीम् । शृणुयाद् दक्षिणे कर्णे नादमन्तस्थमेकधीः ॥ ६७ ॥ शांभवीमुद्रया नादानुसंधानमाह—मुक्तासन इति । मुक्तासने सिद्धासने स्थितो योगी शांभवीं मुद्राम् ‘ अन्तर्लक्ष्यं बहिर्दृष्टिः' (IV. 36) इत्यादिनोक्तां संधाय कृत्वा । एकधीरेकाग्रचित्तः सन् दक्षिणे कर्णेऽन्तस्थं सुषुम्ना- नाड्यां सन्तमेव नादं शृणुयात् । तदुक्तं त्रिपुरासारसमुच्चये— ‘ आदौ मत्तालिमालाजनितरवसमस्तारझंकारकारी नादोऽसौ वांशिकस्यानिलभरितलसद्वंशनिःस्वानतुल्यः । घण्टानादानुकारी तदनु च जलधिध्वानधीरो गभीरो गर्जत्पर्जन्यघोषः पर इह कुहरे वर्तते ब्रह्मनाड्याः ॥ ’ इति ॥ ६७ ॥ श्रवणपुटनयनयुगलघ्राणमुखानां निरोधनं कार्यम् । शुद्धसुषुम्नासरणी स्फुटममलः श्रूयते नादः ॥ ६८ ॥ षण्मुखीमुद्रया नादानुसंधानमाह—श्रवणेति । श्रवणपुटे नयन- योर्न्नेत्रयोर्युगलं युग्मं घ्राणशब्देन घ्राणपुटे मुखमास्यम् । एषां द्वन्द्वे प्राण्यङ्गत्वा-

हठयोगप्रदीपिका १६३ द्येकवद्भावे प्राप्तेऽपि सर्वस्यापि द्वन्द्वैकवद्भावस्य वैकल्पिकत्वान्न भवति । तेषां निरोधनं कराङ्गुलीभिः कार्यम् । निरोधनं चेत्थम्— ‘ अङ्गुष्ठाभ्यामुभौ कर्णौ तर्जनीभ्यां च चक्षुषी । नासापुटौ तथान्याभ्यां प्रच्छाद्य करणानि च ॥’ इति । चकारात् तदन्याभ्यां मुखं प्रच्छाद्येति समुच्चीयते । शुद्धा प्राणायामैर्मलरहिता या सुषुम्नासरणिः सुषुम्नापद्धतिस्तस्याममलो नादः स्फुटं व्यक्तं श्रूयते ॥ ६८ ॥ आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टयम् ॥ ६९ ॥ अथ नादस्य चतस्रोऽवस्थाः प्राह—आरम्भश्चेति । आरम्भावस्था घटावस्था परिचयावस्था निष्पत्त्यवस्था इति । सर्वयोगेषु सर्वेषु चित्तवृत्तिनिरोधो- पायेषु शाम्भव्यादिषु अवस्थांचतुष्टयं स्यात् । चचैवतथापिचाः पादपूर- णार्थाः ॥ ६९ ॥ अथारम्भावस्था— ब्रह्मग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्यसंभवः । विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ ७० ॥ तत्रारम्भावस्थामाह—ब्रह्मग्रन्थेरिति । ब्रह्मग्रन्थेरनाहतचक्रे वर्तमानाया भेदः प्राणायामाभ्यासेन भेदनं यदा भवेत् तदेति; यत्तदोरध्याहारः । आनन्दयतीत्यानन्दः आनन्दजनकः शून्ये हृदाकाशे संभवतीति शून्यसंभवो हृदाकाशोत्पन्नो विचित्रो नानाविधः क्वणो भूषणनिनदः स एव क्वणकः । भूषणनिनदसदृश इत्यर्थः । ‘भूषणानां तु शिञ्जितम् । निक्वाणो निक्कणः क्वाण