भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 183, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 183

हठयोगप्रदीपिका १६५ 'प्राणापानौ नादबिन्दू जीवात्मपरमात्मनोः । मिलित्वा घटते यस्मात् तस्मात् स घट उच्यते ॥ ' इति ॥ ७२ ॥ विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः । अतिशून्ये विमर्दश्च भेरीशब्दस्तदा भवेत् ॥ ७३ ॥ विष्णुग्रन्थेरिति । ततो ब्रह्मग्रन्थिभेदनानन्तरं विष्णुग्रन्थेः कण्ठे वर्तमानाया भेदात् कुम्भकैर्भेदानात् परमानन्दस्य भाविनो ब्रह्मानन्दस्य सूचको ज्ञापकः । अतिशून्ये कण्ठावकाशे विमर्दोऽनेकनादसंमर्दो भेर्याः शब्द इव शब्दो भेरीशब्दो भेरीनादश्च तदा तस्मिन् काले भवेत् ॥ ७३ ॥ तृतीयायां तु विज्ञेयो विहायोमर्द्दलध्वनिः । महाशून्यं तदा याति सर्वसिद्धिसमाश्रयम् ॥ ७४ ॥ परिचयावस्थामाह सार्द्धद्वाभ्याम्—तृतीयायामिति । तृतीयायां परिचया- वस्थायां विहायोमर्द्दलध्वनिर्विहायसि भ्रूमध्याकाशे मर्द्दलस्य वाद्यविशेषस्य ध्वनिरिव ध्वनिुर्विज्ञेयो विशेषेण ज्ञानार्हो भवति । तदा तस्यामवस्थायां सर्वसिद्धिसमाश्रयं सर्वासां सिद्धीनामणिमादीनां समाश्रयं स्थानम् । तत्र संयमादणिमादिप्राप्तेः महाशून्यं भ्रूमध्याकाशं याति गच्छति प्राण इति शेषः ॥ ७४ ॥ चित्तानन्दं तदा जित्वा सहजानन्दसंभवः । दोषदुःखजराव्याधिक्षुधानिद्राविवर्जितः ॥ ७५ ॥ चित्तानन्दमिति । चित्तानन्दं नादविषयान्तःकरणवृत्तिजन्यं सुखं जित्वाभि- भूय सहजानन्दसंभवः सहजानन्दः स्वाभाविकमात्मसुखं तस्य संभव आविर्भावः सः, दोषा वातपित्तकफा दुःखं तज्जन्या वेदना आध्यात्मिकापि च जरा