हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 197, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १७९ ताडनादिकं न, सुखं सुखसाधनं सुरभिचन्दनाद्यनुलेपनादिकं न । तथा चार्थे। मानं परकृतं सत्कारं न अपमानमनादरं च न, विजानातीति क्रियापदं प्रतिवाक्यमन्वेति ॥ १११ ॥ स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते । निःश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ११२ ॥ स्वस्थ इति । स्वस्थः प्रसन्नेन्द्रियान्तःकरणः । एतेन तन्द्रामूर्च्छादि- व्यावृत्तिः । जाग्रदवस्थायामित्यनेन स्वप्नसुषुप्त्योर्निवृत्तिः । सुप्तवत् सुप्तेन तुल्यं कायेन्द्रियव्यापारशून्यो यो योगी अवतिष्ठते स्थितो भवति । ‘समवप्रविभ्य स्थः (Pāṇ., 1. 3. 22) इत्यात्मनेपदम् । निश्वासोच्छ्वासहीनः बाह्यवायोः कोष्ठे ग्रहणं निश्वासः कोष्ठस्थितस्य वायोर्बहिर्निःसारणमुच्छ्वासस्ताभ्यां हीनश्चावतिष्ठत इत्यत्रापि संबध्यते । स निश्चितं निःसंदिग्धं मुक्त एव जीवन्मुक्त एव तत्स्वरूपमुक्तं दत्तात्रेयेण (Yogatat. Up., 105-6)— ‘निर्गुणध्यानसंपन्नः समाधिं च ततोऽभ्यसेत् । दिनद्वादशकेनैव समाधिं समवाप्नुयात् । वायुं निरुध्य मेधावी जीवन्मुक्तो भवेद् ध्रुवम् ॥’ इति ॥ ११२ ॥ अवध्यः सर्वशस्त्राणामशक्यः सर्वदेहिनाम् । अग्राद्यो मन्त्रयन्त्राणां योगी युक्तः समाधिना ॥ ११३ ॥ अवध्य इति । समाधिना युक्तो योगी । सर्वशस्त्राणामिति संबन्ध- सामान्ये षष्ठी । सर्वशस्त्रैरित्यर्थः । अवध्यो हन्तुमशक्य इत्यर्थः । सर्वदेहिनामि- त्यत्रापि संबन्धमात्रविवक्षायां षष्ठी । अशक्यः सर्वदेहिभिः बलेन शक्यो न भवतीत्यर्थः । मन्त्रयन्त्राणां वशीकरणमारणोच्चाटनादिफलैर्मन्त्रयन्त्रैरग्राह्यः