हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 198, कुल 307 में से
संदर्भ में पढ़ें१८० हठयोगप्रदीपिका वशीकर्तुमशक्यः। एवं प्राप्तयोगस्य योगिनो विघ्ना बहवः समायान्ति। तन्निवारणार्थं तज्ज्ञानस्यापेक्षितत्वात् तेऽपि प्रदर्श्यन्ते। दत्तात्रेयः— ‘आलस्यं प्रथमो विघ्नो द्वितीयस्तु प्रकथ्यते। पूर्वोक्तधूर्तगोष्ठी च तृतीयो मन्त्रसाधनम्। चतुर्थो धातुवादः स्यादिति योगविदो विदुः॥’ इति। मार्कण्डेयपुराणे (40. 1-6)— ‘उपसर्गाः प्रवर्तन्ते दृष्टा ह्यात्मनि योगिनः। ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे॥ काम्याः क्रियास्तथा कामान् मनुष्यो योऽभिवाञ्छति। स्त्रियो दानफलं विद्यां मायां कुप्यं धनं वसु॥ देवत्वममरेशत्वं रसायनचयःक्रियाः। मरुप्रपतनं यज्ञं जलाग्न्यावेशनं तथा॥ श्राद्धानां सर्वदानानां फलानि नियमांस्तथा। तथोपवासात् पूर्तञ्च देवताभ्यर्चनादपि॥ तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति। चित्तमित्थं वर्तमानं यत्नाद् योगी निवर्तयेत्। ब्रह्मसङ्गि मनः कुर्वन्नुपसर्गात् प्रमुच्यते॥’ इति। स्कन्दपुराणे— ‘यदैभिरन्तरायैर्न क्षिप्यतेऽस्य हि मानसम्। तदाग्रे तमवाप्नोति परं ब्रह्मातिदुर्लभम्॥’ योगभास्करे— ‘सात्विकीं धृतिमालम्ब्य योगी सत्वेन सुस्थिरः। निर्गुणं मनसा ध्यायन्नुपसर्गैः प्रमुच्यते॥