हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 45, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका २७ तस्याः प्रभावात् सामर्थ्यादुपैति प्राप्नोति । प्राणापानयोरैक्ये कुण्डलिनीबोधो भवति । कुण्डलिनीबोधे सुषुम्नामार्गेण प्राणो ब्रह्मरन्ध्रं गच्छति । तत्र गते चित्तस्थैर्यं भवति । चित्तस्थैर्ये संयमादात्मसाक्षात्कारो भवतीत्यर्थः ॥ ४८ ॥ पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद् यस्तु स मुक्तो नात्र संशयः ॥ ४९ ॥ पद्मासन इति । पद्मासने स्थितो यो योगी योगाभ्यासी पूरितं पूरकेणान्तर्नीतं मारुतं वायुं सुषुम्नामार्गेण मूर्धानं नीत्वेति शेषः, धारयेत् स्थिरीकुर्यात् स मुक्तः । अत्र संशयो नास्तीत्यन्वयः ॥ ४९ ॥ अथ सिंहासनम्— गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ ५० ॥ सिंहासनमाह—गुल्फौ चेति । वृषणस्याधः अधोभागे सीवन्याः पार्श्वयोः सीवन्या उभयभागयोः क्षिपेत् प्रेरयेत् स्थापयेदिति यावत् । गुल्फस्थापनप्रकार- मेवाह—दक्षिण इति । सीवन्या दक्षिणे भागे सव्यगुल्फं स्थापयेत् । सव्यके सीवन्याः सव्यभागे दक्षिणगुल्फं स्थापयेत् ॥ ५० ॥ हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः संप्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५१ ॥ हस्ताविति । जान्वोरुपरि हस्तौ तु संस्थाप्य सम्यग् जानुसंलग्नतलौ यथा स्यातां तथा स्थापयित्वा । स्वाङ्गुलीः हस्ताङ्गुलीः संप्रसार्य सम्यक् प्रसार्य । व्यात्तवक्त्रः संप्रसारितललज्जिह्वमुखः सुसमाहितः एकाग्रचित्तः नासाग्रं नासिकाग्रं यस्मिन् निरीक्षेत ॥ ५१ ॥