भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 46, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 46

२८ हठयोगप्रदीपिका सिंहासनं भवेदेतत् पूजितं योगिपुंगवैः । बन्धत्रितयसंधानं कुरुते चासनोत्तमम् ॥ ५२ ॥ एतत् सिंहासनं भवेत् । कीदृशम् ? योगिपुंगवैः योगिश्रेष्ठैः पूजितं प्रस्तुत- मासनेषूत्तमं सिंहासनं बन्धानां मूलबन्धादीनां त्रितयं तस्य संधानं संनिधानं कुरुते ॥ ५२ ॥ अथ भद्रासनम्— गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ ५३ ॥ भद्रासनमाह—गुल्फाविति । वृषणस्याधः सीवन्याः पार्श्वयोः सीवन्या उभयतः । गुल्फौ पादग्रन्थी क्षिपेत् । क्षेपणप्रकारमेवाह—सव्यगुल्फमिति । सव्ये सीवन्याः पार्श्वे सव्यगुल्फं क्षिपेत् । तथा पादपूरणे । दक्षगुल्फं तु दक्षिणे सीवन्याः पार्श्वे क्षिपेत् ॥ ५३ ॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् । गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः ॥ ५४ ॥ पार्श्वपादौ च पार्श्वसमीपगतौ पादौ पाणिभ्यां भुजाभ्यां दृढं बद्ध्वा परस्परसंलग्नाङ्गुलिभ्यामुदरसंलग्नतलाभ्यां पाणिभ्यां बद्ध्वेत्यर्थः । एतद् भद्रासनं भवेत् । कीदृशम् ? सर्वेषां व्याधीनां विशेषेण नाशनम् । गोरक्षेति । सिद्धाश्च ते योगिनश्च सिद्धयोगिनः, इदं भद्रासनं गोरक्षासनमित्याहुः । गोरक्षेण प्रायशोऽभ्यस्तत्वाद् गोरक्षासनमिति वदन्ति ॥ ५४ ॥ एवमासनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनक्रियाम् ॥ ५५ ॥