भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 50, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 50

३२ हठयोगप्रदीपिका रूपास्तासां वर्जनमादावभ्यासकाल आचरेत् । सिद्धेऽभ्यासे तु कदाचित् । शीते वह्निसेवनं गृहस्थस्य ऋतौ स्वभार्यागमनं तीर्थयात्रादौ मार्गगमनं च न निषिद्ध- मित्यादिपदेन सूच्यते । तत्र प्रमाणं गोरक्षवचनमवतारयति—तथाहीति । तत्पठति —वर्जयेदिति । दुर्जनप्रान्तं दुर्जनसमीपवासम् । 'दुर्जनप्रीतिम्' इति क्वचित् पाठः। वह्निस्त्रीपथिसेवनं व्याख्यातम् । प्रातःस्नानम् उपवासश्चादिर्यस्य फलाहारादेः तच्च तयोः समाहारद्वन्द्वः । प्रथमाभ्यासिनः प्रातःस्नाने शीतविकारोत्पत्तेः । उपवासादिना पित्ताद्युत्पत्तेः । कायक्लेशविधिं कायक्लेशकरं विधिं क्रियां बहु- सूर्यनमस्कारादिरूपां बहुभारोद्वहनादिरूपां च । तथा समुच्चये । अत्र प्रतिपदं वर्जयेदिति क्रियासंबन्धः ॥ ६१ ॥ गोधूमशालयवषाष्टिकशोभनान्नं क्षीराज्यखण्डनवनीतसितामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकं मुद्गादिदिव्यमुदकं च यमीन्द्रपथ्यम् ॥ ६२ ॥ अथ योगिपथ्यमाह—गोधूमेत्यादिना । गोधूमाश्च शालयश्च यवाश्च षाष्टिकाः षष्ट्या दिनैर्यै पच्यन्ते तण्डुलविशेषास्ते शोभनमन्नं पवित्रान्नं श्यामाक- नीवारादि तच्चैतेषां समाहारद्वन्द्वः । क्षीरं दुग्धमाज्यं घृतं खण्डः शर्करा नवनीतं मथितदधिसारः सिता तीव्रपदी खण्डशर्करेति लोके प्रसिद्धा मिसरीति हिन्दुस्थान- भाषायाम् । मधु क्षौद्रम् एषामितरेतरद्वन्द्वः । शुण्ठी प्रसिद्धा पटोलकफलं परवर इति भाषायां प्रसिद्धं शाकं तदादिर्यस्य कोशातक्यादेस्तत्पटोलकफलादिकं ‘शेषाद्वि- भाषा’ (Pāṇ., V. 4. 154) इति कपप्रत्ययः । पञ्चानां शाकानां समाहारः पञ्चशाकम् । तदुक्तं वैद्यके— ‘सर्वशाकमचाक्षुष्यं चाक्षुष्यं शाकपञ्चकम् । जीवन्तीवास्तूमूल्याक्षीमेघनादपुनर्नवाः ॥’ इति ।