भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 51, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 51

हठयोगप्रदीपिका ३३ मुद्गा द्विदलविशेषा आदिर्यस्य तन्मुद्गादि । आदिपदेन आढकी ग्राह्या । दिव्यं निर्दोषमुदकं जलम् । यम एषामस्तीति यमिनः तेष्विन्द्रो देवश्रेष्ठो यो योगीन्द्रस्तस्य पथ्यं हितम् ॥ ६२ ॥ पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६३ ॥ अथ योगिनो भोजननियममाह--पुष्टमिति । पुष्टं देहपुष्टिकरमोदनादि सुमधुरं शर्करादिसहितं स्निग्धं सघृतं गव्यं गोदुग्धघृतादियुक्तं गव्यालाभे माहिषं दुग्धादि ग्राह्यम् , धातुप्रपोषणं लड्डुकापूपादि । मनोऽभिलषितं पुष्टादिषु यन्मनोरुचिकरं तदेव योगिना भोक्तव्यम् । मनोऽभिलषितमपि किमविहितं भोक्तव्यम् , नेत्याह । योग्यमिति । विहितमेवेत्यर्थः । योगी भोजनं पूर्वोक्त- विशेषणविशिष्टमाचरेत् कुर्यादित्यर्थः । न तु सक्तुभर्जितान्नादिना निर्वाहं कुर्यादिति भावः ॥ ६३ ॥ युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः ॥ ६४ ॥ योगाभ्यासिनो वयोविशेषारोग्याद्यपेक्षा नास्तीत्याह--युवेति । युवा तरुणः वृद्धो वृद्धावस्थां प्राप्तः, अतिवृद्धोऽतिवार्द्धकं गतो वा । अभ्यासादा- सनकुम्भकादीनामभ्यासनात् सिद्धिं समाधितत्फलरूपामाप्नोति । अभ्यासप्रकारमेव वदन् विशिनष्टि । सर्वयोगेष्विति । सर्वेषु योगेषु योगाङ्गेष्वतन्द्रितोऽनलसः । योगाङ्गाभ्यासात् सिद्धिमाप्नोतीत्यर्थः । जीवनसाधने कृषिवाणिज्यादौ जीवन- शब्दप्रयोगवत् साक्षात्परंपरया वा योगसाधनेषु योगाङ्गेषु योगशब्दप्रयोगः ॥६४॥ क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ ६५ ॥ 3