हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 71, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका ५३ यावद् भ्रुवोर्मध्ये दृष्टिरन्तःकरणवृत्तिः । दृशिरत्र ज्ञानसामान्यार्थः । तावत्काल- पर्यन्तं कलयतीति कालोऽन्तकस्तस्माद् भयं कुतः, न कुतोऽपीत्यर्थः । तथा च वक्ष्यति (IV. 108)— ‘ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ ’ इति । स्वाधीनो भवतीत्यर्थः ॥ ४० ॥ विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्नावदनं भित्त्वा सुखाद् विशति मारुतः ॥ ४१ ॥ विधिवदिति । विधिवत् प्राणसंयामैरासनजालंधरबन्धादिविधियुक्त- प्राणायामैर्नाडीचक्रे नाडीनां चक्रं समूहस्तस्मिन् विशोधिते निर्मले सति मारुतो वायुः सुषुम्ना इडापिङ्गलयोर्मध्यस्था नाडी तस्या वदनं मुखं भित्त्वा सुखाद- नायासाद् विशति सुषुम्नान्तरिति शेषः ॥ ४१ ॥ मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ ४२ ॥ मारुत इति । मध्ये सुषुम्नामध्ये संचारः सम्यक् चरणं गमनं मूर्धपर्यन्तं यस्य स मध्यसंचारस्तस्मिन् सति मनसः स्थैर्यं ध्येयाकारवृत्तिप्रवाहो जायते प्रादुर्भवति । यो मनसः सुस्थिरीभावः सुष्ठुस्थिरीभवनं सैव मनोन्मन्यवस्था । मनोन्मनीशब्द उन्मनीपर्यायः । तथाग्रे वक्ष्यति—‘ राजयोगः समाधिश्च ’ (IV. 3) इत्यादिना ॥ ४२ ॥ तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् । विचित्रकुम्भकाभ्यासाद् विचित्रां सिद्धिमाप्नुयात् ॥ ४३ ॥