हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 72, कुल 307 में से
संदर्भ में पढ़ें५४ हठयोगप्रदीपिका विचित्रेषु कुम्भकेषु प्रवृत्तिं जनयितुं तेषां मुख्यफलमवान्तरफलं चाह— तत्सिद्धय इति। विधानं कुम्भकानुष्ठानप्रकारस्तज्जानन्तीति विधानज्ञास्तत्सिद्धये उन्मन्यवस्थासिद्धये चित्रान् सूर्यभेदनादिभेदेन नानाविधान् कुम्भकान् कुर्वन्ति॥ विचित्राश्च ते कुम्भकाश्च विचित्रकुम्भकास्तेषामभ्यासादनुष्ठानाद् विचित्रामणि- मादिभेदेन नानाविधां विलक्षणां वा जन्मौषधिमन्त्रतपोजातां सिद्धिम्। तदुक्तं भागवते (XI. 16. 34)— ‘जन्मौषधितपोमन्त्रैर्य्यावत्य इह सिद्धयः। योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥’ इति। आमुयात् प्रत्याहारादिपरंपरयेति भावः ॥ ४३ ॥ अथ कुम्भकभेदाः— सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा। भस्त्रिका भ्रामरी मूर्च्छा प्लाविनित्यष्ट कुम्भकाः ॥ ४४ ॥ अथाष्टकुम्भकान् नामभिर्निर्दिशति—सूर्यभेदनमिति। स्पष्टम् ॥ ४४ ॥ पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः। कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ४५ ॥ अथ हठसिद्धावनन्यसिद्धां पारमहंसीं सर्वकुम्भकसाधारणयुक्तिमाह त्रिभिः—पूरकान्त इति। जालंधर इत्यभिधा नाम यस्य स जालंधराभिधो बन्धः, बध्नाति प्राणवायुमिति बन्धः। कण्ठाकुञ्चनपूर्वकं चिबुकस्य हृदि स्थापनं जालंधर- बन्धः पूरकान्ते पूरकस्यान्ते पूरकानन्तरं झटिति कर्तव्यः। तुशब्दात् कुम्भकादौ। उड्डियानकस्तु कुम्भकान्ते कुम्भकस्यान्ते किंचित् कुम्भकशेषे रेचक-