भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 86, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 86

६८ हठयोगप्रदीपिका भ्रामरीकुम्भकमाह—वेगादिति । वेगात् तरसा घोषं सशब्दं यथा स्यात् तथा भृङ्गस्य भ्रमरस्य नाद इव नादो यस्मिन् कर्मणि तत् तथा पूरकं कृत्वा । भृङ्ग्यो भ्रमर्यस्तासां नाद इव नादो यस्मिन् तत् तथा मन्दं मन्दं रेचकं कुर्यात् । पूरकानन्तरं कुम्भकस्तु भ्राम र्याः कुम्भकत्वादेव सिद्धोऽ विशेषाच्च नोक्तः । पूरकरेचकयोस्तु विशेषोऽस्तीति तावेवोक्तौ । एवमुक्तरीत्या- भ्यसनमभ्यासस्तस्य योगो युक्तिस्तस्माद् योगीन्द्राणां चित्ते काचिदनिर्व्वाच्या आनन्दे लीला क्रीडा आनन्दलीला जातोत्पन्ना भवति ॥ ६८ ॥ अथ मूर्च्छा— पूरकान्ते गाढतरं बद्ध्वा जालंधरं शनैः । रेचयेन्मूर्छनाख्येयं मनोमूर्च्छा सुखप्रदा ॥ ६९ ॥ मूर्च्छाकुम्भकमाह—पूरकान्त इति । पूरकस्यान्तेऽवसानेऽतिशयेन गाढं गाढतरं दृढतरं जालंधराख्यं बन्धं बद्ध्वा शनैर्मन्दं मन्दं रेचयेत् । इयं कुम्भिका मूर्च्छनाख्या मूर्च्छना इत्याख्या यस्या इति मूर्च्छनाख्या । कीदृशी ? मनो मूर्च्छयतीति मनोमूर्च्छा । एतेन मूर्च्छनाया विग्रहदर्शनपूर्वकं फलमुक्तम् । पुनः कीदृशी ? सुखप्रदा सुखं प्रददातीति सुखप्रदा ॥ ६९ ॥ अथ प्लावनी— अन्तःप्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥ ७० ॥ प्लावनीकुम्भकमाह—अन्तरिति । अन्तः शरीरान्तः प्रवर्तितः पूरित उदारोऽतिशयितो यो मारुतः समीरस्तेना समन्तात् पूरितमुदरं येन स पुमानगाधेऽप्यतलस्पर्शेऽपि पयसि जले पद्मपत्रवत् पद्मपत्रेण तुल्यं सुखादना- यासात् प्लवते तरति जलोपरि गच्छति ॥ ७० ॥

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक) · पृष्ठ 86, कुल 307 में से · BharatKosha