हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 87, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका ६९ प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७१ ॥ अथ प्राणायामभेदानाह—प्राणायाम इति । प्राणस्य शरीरान्तः- संचारिवायोरायामनं निरोधनमायामः प्राणायामः । प्राणायामलक्षणमुक्तं गोरक्ष- नाथेन—'प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्' (Gor. Śat., 42) इति । रेचकश्च पूरकश्च कुम्भकश्च तैर्भेदैस्त्रिधा त्रिप्रकारकः, रेचकप्राणायामः पूरक- प्राणायामः कुम्भकप्राणायामश्चेति । रेचकलक्षणमाह याज्ञवल्क्यः—'बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः' इति । रेचकप्राणायामलक्षणम्— ‘निष्क्रम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन । निरुच्छ्वसंस्तिष्ठति रुद्धवायुः स रेचको नाम महानिरोधः ॥’ पूरकलक्षणम्—'बाह्यादापूरणं वायोरुदरे पूरको हि सः' । पूरक- प्राणायामलक्षणम्— ‘बाह्ये स्थितं प्राणपुटेन वायुमाकृष्य तेनैव शनैः समन्तात् । नाडीश्च सर्वाः परिपूरयेद्यः स पूरको नाम महानिरोधः ॥’ कुम्भकलक्षणम्—'संपूर्य कुम्भवद्वायोर्धारणं कुम्भको भवेत्' । अयं कुम्भकस्तु पूरकप्राणायामादभिन्नः । भिन्नस्तु— ‘न रेचको नैव च पूरकोऽत्र नासापुटान्तस्थितमेव वायुम् । सुनिश्चलं धारयते क्रमेण कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥’ अथ प्रकारान्तरेण प्राणायामं विभजते—सहित इति । कुम्भको द्विविधः । सहितः केवलश्चेति । मतोऽभिमतो योगिनामिति शेषः । तत्र सहितो द्विविधः । रेचकपूर्वकः पूरकपूर्वकश्च । तदुक्तम्—'आरेच्यापूर्य वा