हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 88, कुल 307 में से
संदर्भ में पढ़ें७० हठयोगप्रदीपिका कुर्यात् स वै सहितकुम्भकः' । तत्र रेचकपूर्वको रेचकप्राणायामादभिन्नः । पूरकपूर्वकः कुम्भकः पूरकप्राणायामादभिन्नः । केवलकुम्भकः कुम्भकप्राणा- यामादभिन्नः । प्रागुक्ताः सूर्यभेदनादयः पूरकपूर्वकस्य कुम्भकस्य भेदा ज्ञातव्याः ॥ ७१ ॥ यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद् वायुधारणम् ॥ ७२ ॥ सहितकुम्भकाभ्यासस्यावधिमाह—यावदिति । केवलस्य केवलकुम्भकस्य सिद्धिः केवलसिद्धिर्यावत् यावत्पर्यन्तं स्यात् तावत् तावत्पर्यन्तं सहितकुम्भकं सूर्यभेदादिकमभ्यसेदनुतिष्ठेत् । सुषुम्नाभेदानन्तरं यदा सुषुम्नान्तः षट्शब्दा भवन्ति तदा केवलकुम्भकः सिद्ध्यति । तदनन्तरं सहितकुम्भका दश विंशतिर्वा कार्याः । अशीतिसंख्यापूर्तिः केवलकुम्भकैरेव कर्तव्या । सति सामर्थ्ये केवलकुम्भका अशीतेरधिकाः कार्याः । केवलकुम्भकस्य लक्षणमाह—रेचकमिति । रेचकं पूरकं मुक्त्वा त्यक्त्वा सुखमनायासं यथा स्यात् तथा वायोर्धारणं वायुधारणं यत् ॥ ७२ ॥ प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ ७३ ॥ प्राणेति । स वै इति । निश्चितं केवलकुम्भकः प्राणायाम इत्ययमुक्तः । केवलं प्रशंसति—केवल इति । रेचो रेचकः, रेचश्च पूरकश्च रेचपूरकौ ताभ्यां वर्जिते रहिते केवले कुम्भके सिद्धे सति ॥ ७३ ॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ ७४ ॥