भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 101, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 101

वियोनिजन्माध्यायः ॥३॥ ७५ चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ ॥ ३६ ॥ छागसिंहवृषे लग्ने तत्स्थे सौरेऽथवा कुजे । राश्यंशसदृशे गात्रे जायते नालवेष्टितः ॥ ४० ॥ लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथवाऽत्र । पापग्रहाणां तु विलग्नभे वा जातो नरो नालविवेष्टिताङ्गः ॥ ४१ ॥ क्रूरान्तरे लग्नगते सराहौ लग्ने कुजे वासरनाथदृष्टे । लग्ने शनौ भूमिसुतेन दृष्टे जातो नरो नालविवेष्टिताङ्गः ॥ ४२ ॥ इदानीं जन्मकाले सर्पवेष्टितशरीरजन्मयोगा उच्यन्ते । गर्भे सर्पस्यासम्भवात्तदाकार- नालेन वेष्टितो भवति जातक इत्यवगन्तव्यम् । लग्ने राहुष्टमेशयोर्योगे सर्पवेष्टितो भवति(१) लग्ने पापग्रहाष्टमेशयोर्योगे सर्पवेष्टितस्य जन्म ( २ ) । केन्द्रे ( १।४।७।१० ) राहुः, लग्नेशो गुलिकेन वाऽष्टमेशेन युक्तः तथा लग्ने पाप- द्रेक्काणे सति सर्पवेष्टितस्य जन्म ( ३ ) । लग्नस्य त्रिभागे ( द्रेष्काणे ) अण्डजो विहङ्गः, सर्पो व्यालः, कोलो निगलः एते भवे- युरर्थादेतेषां द्रेष्काणानामन्यतमो लग्ने भवेत् ( ५ अ० ५५ श्लो० द्रष्टव्यः ) तथा त्रिभागः= द्रेष्काणस्तन्नाथेन=तत्पतिनायुक्तो भवेत् लग्ने शुभग्रहदृष्टिविहीने च सर्पवेष्टितस्य जन्म (४)। चन्द्रः पापग्रहराशिलग्ने भवेद्वा भौमस्य द्रेष्काणे भवेत्, शुभग्रहा द्वितीयैकादशस्थान- गताः स्युस्तदा सर्पवेष्टितस्य जन्म सर्पस्य वेति ( ५ ) । सूर्ये चतुष्पदराशिगते, शेषैश्चन्द्रादिभिर्बलिभिर्द्विस्वभावगतैश्चैकजरायुवेष्टितौ यमलौ जायेते ( ६ ) । मेषे, सिंहे, वृषे वा लग्नगते, तत्र शनौ वा भौमे विद्यमाने, राश्यंशसदृशे गात्रे=लग्ने यस्य राशेर्नवांशो भवेत्स राशिः पुरुषस्य ( कालात्मकस्य ) यस्मिन्नङ्गे भवति तस्मिन्नङ्गे नालवेष्टितो जायते जातक इति ( ७ ) । सपापे लग्ने इत्यादि स्पष्टमेव ( ८ ) । पापग्रहयोर्मध्ये लग्ने, तत्र राहुर्भवेत्, वा लग्ने कुजो रविणाऽवलोकितो भवेत्, वा लग्ने शनिः कुजेनावलोकितो भवेदिति योगत्रयेऽपि नालवेष्टितस्य जन्म वाच्यम् ( ९ ) । Notes—एषु ३८-४० श्लोका वराहस्यापरे सर्वार्थचिन्तामणोः ॥ ३५-४२ ॥ अष्टमेश राहुके साथ लग्नमें हो तो जातक सर्पसे वेष्टित उत्पन्न होता है ॥ ३५ ॥ अष्टमेश पापग्रहके सहित लग्नमें हो तो जातक सर्पसे वेष्टित उत्पन्न हो । केन्द्र राहुसे युक्त, लग्नेश गुलिकसे वा अष्टमेशसे युक्त हो, क्रूरग्रहके द्रेष्काणमें लग्न हो तो जातक नाल- वेष्टित जन्म ले ॥ ३६ ॥ लग्नमें अण्डज ( सिं. का १ ला ) सर्प ( कर्कका २, मीनका ३, वृश्चिकका १ द्रेष्काण ) और कोल ( सूअर = मकरका १ द्रे० ) द्रेष्काण हो तथा द्रेष्काण उसके पतिसे युक्त हो, लग्नमें शुभग्रहोंकी दृष्टि न हो तो जातक सर्पसे लिपटा हुआ जन्म लेता है ॥ ३७ ॥ चन्द्रमा पापग्रहकी राशिका हो अथवा मङ्गलके द्रेष्काणमें हो शुभग्रह २ रे और १२ वें में हों तो सर्पका अथवा सर्पसे लिपटे हुये का जन्म कहे ॥ ३८ ॥ सूर्य चतुष्पद राशिका हो, शेषग्रह बली होकर द्विस्वभावमें हों तो दो बालक नालसे बँधे हुये जाने ॥ ३९ ॥ मेष, सिंह, या वृष लग्न हो, वहां शनि वा मङ्गल स्थित हो तो लग्नके नवांशकी राशि वाले अङ्गमें नालसे लिपटा हुआ जातकको जाने ॥ ४० ॥