जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
DevanagariHindipublished588 पृष्ठ
पृष्ठ 102, कुल 588 में से
संदर्भ में पढ़ेंपृष्ठ 102
७६ सटीकजातकपारिजाते- लग्नमें पापग्रह हो पापग्रहोंसे दृष्ट हो, वा राहु या केतुसे युक्त हो, वा पापग्रहोंकी राशिमें हो तो जातक नालसे वेष्टित उत्पन्न होता है ॥ ४१ ॥ लग्न क्रूरग्रहोंके बीचमें राहुके साथ हो, या लग्नमें मङ्गल हो उसे सूर्य देखता हो, वा लग्नमें शनि हो उसे मङ्गल देखता हो तो उत्पन्न होने वाले बालकका शरीर नालसे वेष्टित होता है ॥ ४२ ॥ अथ प्रसूतिकालज्ञापिका ग्रहस्थितिः ।
- तत्काल इन्दुसहितो द्विरसांशको यस्तत्तुल्यराशिसहिते पुरतः शशाङ्के । यावानुदेति दिनरात्रिसमानभागस्तावद्गते दिननिशोः प्रवदन्ति जन्म ॥४३॥ उदयति मृदुभांशे सप्तमस्थे च मन्दे । यदि भवति निषेकः सूतिरब्दत्रयेण ॥ शशिनि तु विधिरेष द्वादशाब्दैः प्रकुर्यात् । निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४४ ॥ इदानीं निषेकात्प्रश्नाद्वा प्रसवकालज्ञानमाह । तत्काले = निषेककाले वा प्रश्नकाले यस्य राशेर्यस्मिन्द्वादशभागे चन्द्रो भवेत्तस्माद्द्वादशांशराशेस्तत्तुल्यराशिसहिते = तावन्मिते राशौ चन्द्रेऽग्रतो विद्यमाने सति दशमे मासे प्रसवो वाच्यः । अत्रोदाहरणम्-माघशुक्लपञ्चम्यां कस्यचिन्निषेककाले = स्पष्टचन्द्रः = ५।२६।१५। १०″ । तत्र कन्याराशेर्नवमो द्वादशांशो वृषस्य भवति, तेन वृषात्नवमो मकरस्तस्मिन्यदा चन्द्रो दशमे मासे कार्तिके भवेत्तदा प्रसवो वक्तव्य इति । अथ जन्मकालनक्षत्रानयनम् । भुक्तवृषद्वादशांशमानम् = ०।१५′।१०″ = १५′ स्वल्पान्तरात् । ततः सम्पूर्णद्वादशांशप्रमाणेन १५०′ अनेन चक्रकला लभ्यन्ते तदा १५′ अनेन का इति= ( १८००′ X १५′ ) / १५०′ = १८०′ । प्रतिराशि नव चरणास्तेनैकैकर्क्षचरणो २००′ कला भवन्ति, तस्मात् १८०′ ÷ २०० = ० शे० १८०′ । अतो मकरराशेः प्रथमचरणे ( उत्तराषाढनक्षत्रस्य द्वितीयचरणे ) प्रसवो भविष्यतीति वाच्यम् । अथ दिनरात्रिकालज्ञानम् । यावानुदेति दिनरात्रिसमानभागः । दिनरात्रिसंज्ञाः प्रथमाध्याये चतुर्दशश्लोके व्याख्याताः । निषेककालिको लग्नभागो दिनसंज्ञको रात्रिसंज्ञको वा यावद्गत उदेति । एतदुक्तं भवति-निषेकलग्ने दिनरात्रिसंज्ञकस्य नवांशकस्य ये गतांशा भवन्ति, तावद्गते = तद्दशाद्दिननिशोर्गते काले जन्म प्रवदन्ति विज्ञा इति । अत्र कल्प्यते निषेकलग्नम्—३।१०।१२′।१५″। अत्र कर्कराशेश्चतुर्थो नवांशो हि तुलाया भवति, तुला दिनसंज्ञिका तेन दिने जन्म भवेत् । तत्रेष्टकालानयनम् । अत्र चतु- र्थनवांशभुक्तमानम् = १२′।१५″। तेनानुपातो यदि निखिलमानेन ( २००′ ) अनेन निषेक- दिनमितिः ( २६।३० ) लभ्यते तदा-( १२′।१५″ ) नेन का इति = ( २६ १/२ X १२ १/४′ ) / २००′ = १।४० स्वल्पान्तरात् । अतो दिने १।४० घट्यादीष्टकाले जन्म स्यादिति वाच्यम् ॥४३॥ अथ दीर्घकालप्रसवयोगमाह । मृदुभांशे उदयति = निषेकलग्ने मकरकुम्भयोर- न्यतरस्य नवांशे विद्यमाने, मन्दे = शनैश्चरे सप्तमस्थे च यदि निषेकः = गर्भाधानं भवति तदा तस्य गर्भस्य वर्षत्रयानन्तरं सूतिः = प्रसवो भवति । तु पुनरेष एव विधिर्यदि शशिनि= चन्द्रे भवेत्, अर्थात् निषेकलग्ने कर्कराशेर्नवांशो भवेत् तथा लग्नात्सप्तमगश्चन्द्रो भवेत्तदा
- तत्कालमिन्दुसहितः इति पाठान्तरम् ।