जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 110, कुल 588 में से
संदर्भ में पढ़ें८४ सटीकजातकपारिजाते- पि = राशौ शनेः ( १०।११ ) नवांशे विद्यमाने, वा हिबुके = लग्नाच्चतुर्थे, वा मन्ददृष्टे = यत्र कुत्रापि शनैश्चरेणावलोकिते, वा अब्जगे = कर्के मीने वा, ( मकरकुम्भयोः पूर्वमुक्तत्वात् ) वा तेन शनिना युक्ते चन्द्रे तमसि = अन्धकारे प्रसूतिकायाः शयनं वाच्यम् । परञ्चैतेषु योगेषु चन्द्रे रविणाऽवलोकिते प्रकाश एव । “इन्दुः सूर्येण दृष्टश्चेत्तेजस्येव तदादिशेत्” इति दर्शनात् । नीचसंस्थैः = त्रिप्रभृतिभिर्ग्रहैर्नीचगतैर्भूमौ = धरायां शयनं वाच्यम् । अथ गर्भमोक्षमाह—राशिः = प्रसवलग्नं, यद्वद्दरिजं व्रजति यथोदयं गच्छति तद्वत्त- यैव गर्भमोक्षः = प्रसवो भवति । यदि लग्नं पृष्ठोदयराशिस्तदा पृष्ठं दर्शयतोऽधोमुखस्य गर्भस्य मोक्षः । शीर्षोदये लग्ने उपरिकृतोदरस्योर्ध्वमुखस्य गर्भस्य मोक्षः । एवमुभयोदये पार्श्वदिग्गतस्य मोक्षो वाच्यः । अथ जननीक्लेशयोगः । पापैः = पापग्रहैः, चन्द्रयुक्तैः, लग्नात् सप्तमगतैश्चतुर्थ- गतैर्वा जनन्याः = मातुः प्रसवकाले क्लेशं = कष्टं विज्ञा आहुः । तथोक्तं च सारावल्याम्— “क्लेशो मातुः क्रूरैर्वन्ध्वस्तगतैः शशाङ्कयुक्तैर्वा” इति ॥ ७० ॥ चन्द्रमा शनिकी राशि ( १० । ११ ) या नवांशमें हो, अथवा लग्नसे ४ थे भावमें हो, वा किसी भी राशिमें शनिसे देखा जाता हो, वा जलचर ( ४ । १२ ) राशिमें हो, वा कहीं भी शनिके साथ हो तो अन्धेरेमें प्रसूतीका शयन कहना चाहिये। इन योगोंमें चन्द्रमापर सूर्यकी दृष्टि रहनेपर पहलेके कहे हुए योगका फल नहीं होता है अर्थात् सूतिकागृहमें दीप अवश्य जन्मके समय रहता है। तीनसे अधिक ग्रह नीच राशिमें हों तो भूमिमें जन्म कहे। शीर्षोदय लग्नमें जन्म हो तो प्रसव समयमें बालकका मुख ऊपर जाने ( उत्तान जन्मा हुआ )। पृष्ठोदय लग्न हो तो नीचे मुख करके जन्म जाने । मीन लग्नमें जन्म हो तो कर- वट जन्म जाने, क्योंकि यह उभयोदय राशि है। लग्नेश वा नवांशपति ग्रह वक्री हो तो उलटा प्रसव जाने अर्थात् योनिके बाहर पहले पैर निकला होगा। यदि जन्मके समय पाप- ग्रह चन्द्रमाके साथ, वा लग्नसे सप्तम वा चतुर्थमें हो तो माताको प्रसवके समय अधिक कष्ट हुआ होगा ॥ ७० ॥ अथ सूतीगृहे दीपज्ञानं द्वारज्ञानं च । स्नेहः शशाङ्कादुदयाच्च वर्ती दीपोऽर्कयुक्तर्क्षवशाच्चराद्यः । द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्ज्ञेयं ग्रहैर्वीर्यसमन्वितैर्वा ॥ ७१ ॥ इदानीं सूतिकागारे दीपादिशानं गृहद्वारज्ञानञ्चाह । चन्द्राद्दीपे तैलं वाच्यमर्थाच्चन्द्रो राश्यादौ भवेत्तदा दीपपात्रं तैलपूर्ण, राश्यन्ते तैलशून्यं, मध्येऽर्द्धमात्रमिति । उदयाल्लग्ना- द्वर्ती वाच्य । राश्यादौ लग्ने तत्कालदत्ता, मध्येऽर्द्धदग्धा, राश्यन्ते सम्पूर्णदग्धा वर्त्तीति । सूर्य्यस्थितराशिवशाच्चराद्यो दीपो वाच्यः । सूर्ये चरराशौ दीपश्चलितः, स्थिरे दीप एकत्र स्थितः, द्विस्वभावे दीप एकस्थानादन्यत्रावधारितो वाच्यः । अथ सूतिकागृहे द्वारज्ञानम् । लग्नात्केन्द्र-( १।४।७।१० ) गतैर्ग्रहैर्वास्तुनि=सूति- कालये द्वारं वाच्यमर्थात्केन्द्रे यो ग्रहो भवति, तस्य या दिक्तन्मुखं प्रसवगृहं वाच्यम् । यदि केन्द्रेऽनेके ग्रहाः स्युस्तदा वीर्यसमन्वितैर्ग्रहैस्तेषां यो बलीयाँस्तद्दिगभिमुखमिति । केन्द्रे ग्रहाभावे लग्नराशिदिगभिमुखं द्वारं वाच्यमिति दिक् ॥ ७१ ॥ जन्मके समय चन्द्रमा राश्यादिमें हो तो दीपमें तेल भरा जाने । जिस प्रकार चन्द्रमाके अंश बीते हों उसी प्रकार दीपमें तेल जाने । राश्यन्तमें हो तो खाली दीप जाने। इसी प्रकार लग्नके आरम्भमें जन्म हो तो पूरी बत्ती, मध्य लग्नमें आधी जली बत्ती, अन्त्य लग्नमें थोडी बत्ती जाने । सूर्य चर राशिमें हो तो दीप चञ्चल समझे, स्थिरमें स्थिर, द्विस्वभावमें