जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 116, कुल 588 में से
संदर्भ में पढ़ेंअथारिष्टाध्यायः ॥ ४ ॥ तत्रादौ द्वादशाब्दीमध्ये आयुषोऽनिश्चितता । अथाधुना अरिष्टाध्यायो व्याख्यायते । तत्र सत्यप्यायुषि द्वादशाब्दाभ्यन्तरे बालानां कतिभिः कारणैर्मरणसम्भवात् जन्मतौ द्वादशाब्दं यावदायुषोऽनिश्चितत्वमाह— आद्वादशाब्दान्तरयोनिजन्मनामायुष्कला ✤ निश्चायितुं न शक्यते । मात्रा च पित्रा कृतपापकर्मणा बालग्रहैर्नाशमुपैति बालकः ॥ १ ॥ आद्ये चतुष्के जननीकृताद्यैर्मध्ये तु पित्राऽर्जितपापसङ्घैः । बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥ २ ॥ सर्वेषामेव जनिमतां सत्यप्यायुर्योगे जन्मतो द्वादशवर्षाभ्यन्तरे तदायुर्न निर्णतव्यम् । यतस्तत्र प्रथमे द्वादशाब्दे मातृपितृकृतकिल्विषैर्बालग्रहैश्च बालको मरणमेति । तत्र प्रथमे वर्षचतुष्टये जननीकृतपापैस्ततो द्वितीये वर्षचतुष्के (५-८) पितृकृतपापैरन्तिमे वर्षचतुष्के (९-१२) स्वकीयदोषैः प्राक्तनैः (बालारिष्टभूतैः) बालको मृत्युमुपैति । अत एव द्वाद- शाब्दाद्बालानामुक्तदोषपरिहारार्थं जपहोमादिकं कुर्यात् । तथोक्तमाचार्यवेङ्कटेशेन—"आद्वाद- शाब्दाज्जन्तूनामायुर्ज्ञातुं न शक्यते । जपहोमचिकित्साद्यैर्बालरक्षां तु कारयेत् ॥ पित्रोर्दोषैः मृताः केचित् केचिद्बालग्रहैरपि । अपरेऽरिष्टयोगाच्च त्रिविधा बालमृत्यवः" इति ॥ १-२ ॥ योनिसे जायमानोंके बारह वर्षके भीतर आयुका निश्चय नहीं हो सकता, क्योंकि मातापिताके किये हुए पाप कर्मसे और बालग्रहोंसे बालकका नाश होता है ॥ १ ॥ जन्मसे १२ वर्ष तक चार २ वर्ष तीन जगह विभाग किया है। चार वर्ष तकका बालक माताके पापसे मरता है। उसके बाद आठ वर्ष पर्यन्तका बालक पिताके पापसे मरता है, और अन्त्यके जो चार वर्ष हैं (आठवेंके बाद १२ तक) उसमें अपने पापोंसे मरता है ॥२॥ अथारिष्टपूर्वकमायुषां भेदाः । अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् । अल्पं चाद्वात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥ ३ ॥ अष्टौ वर्षाणि बालारिष्टं, ततोऽनन्तरं विंशतिवर्षपर्यन्तं योगारिष्टं (प्रतिकूलग्रहजनि- तम्) विज्ञाः प्राहुः । द्वात्रिंशद्वर्षाणि अल्पायुस्तथा सप्ततिवर्षाणि (७०) मध्यमायुरेवं च वर्षशतं पूर्णायुः । वक्ष्यति चाग्रे 'द्वात्रिंशद्वत्सरादुपरि सप्ततिपर्यन्तं मध्यमायुर्योगः' तथा 'सप्तत्युपरि शतान्तं पूर्णमायुः' इति । अत्र शतोर्ध्वमुत्तमायुः पूर्णायुर्वेति ज्ञेयम् । उक्तञ्च सर्वार्थचिन्तामणौ— "द्वात्रिंशत्पूर्वमल्पं स्यात्तदूर्ध्वं मध्यमं भवेत् । आसप्ततेस्तदूर्ध्वं तु दीर्घायुरिति सम्मतम् ॥ उत्तमायुः शतादूर्ध्वमिह शंसन्ति तद्विदः" इति ॥ ३ ॥ जन्मसे प्रथम ८ वर्ष तक बालारिष्ट रहता है। उसके बाद २० वें वर्ष तक योगारिष्ट (दुष्ट ग्रहोंसे उत्पन्न) रहता है। ३२ वें वर्ष तक अल्पायु, ३२ से ७० तक मध्यमायु और ७० के बाद १०० तक पूर्णायु कही गयी है। एवं १०० से १२० वर्ष तक परमायु समझनी चाहिये । (सु० शा० कार) ॥ ३ ॥ अथ अरिष्टदा ग्रहस्थितिः । विलग्नयातस्त्वपि देवमन्त्रौ विनाशरिःफारिगते शशाङ्के । विलोकिते पापवियच्चरेण विभानुना मृत्युमुपैति बालकः ॥ ४ ॥ ——————————————————————————————————————————— *अत्र निश्चेतुमिति-साधुपाठे छन्दोभङ्गभयान्निश्चायितुमिति पठितम् ।