जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 118, कुल 588 में से
संदर्भ में पढ़ें९२ सटीकजातकपारिजाते- यदि सूर्य, चन्द्रमा चतुर्थ स्थानमें स्थित हों और शनि सप्तममें हो तो माताकी मृत्यु कहे। यदि लग्नसे छठे स्थानमें क्रूरग्रह हो तो भाईके नाशका कारण होता है ॥ ७ ॥ लग्न और चन्द्रमा क्रूरग्रहसे दृष्ट हों शुभग्रहोंसे दृष्ट-युत न हों और वृहस्पति यदि केन्द्रमें न हो तो जातककी माता नाशको प्राप्त होवै ॥ ८ ॥ अथ सगर्भामृत्युयोगौ । सभानुजे शीतकरे बिलग्नाद् दिवाकरे रिःफगृहोपयाते । धरासुते बन्धुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ ६ ॥ विलग्नचन्द्रौ शुभदृग्विहीनावशोभनव्योमचरान्तरस्थौ । विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ १० ॥ षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु । पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ ११ ॥ लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृष्टिवर्जितौ । शस्त्रेण मृत्युं समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ १२ ॥ इदानीं गर्भयुक्तायाः स्त्रिया मरणयोगा उच्यन्ते । लग्नाद्द्वादशे भावे शनिसूर्ययुक्तश्चन्द्रो भवेत्तथा मङ्गलश्चतुर्थभावे भवेत्तदा तज्जननी = गर्भस्थस्य शिशोर्माता सगर्भा = गर्भयुक्तैव विपद्यते = म्रियते । अयं विचारो निषेककाले युक्तः, प्रसवे सगर्भाया मरणासम्भवात् । अत एव गर्भाधाने यद्ययं योगः स्यात्तदा गर्भिण्याः स्त्रिया मरणं भवेदिति । योगान्तरम्- निषेककाले लग्नं चन्द्रश्च युगपदेकत्र वा पृथक् शुभग्रहदृष्टिरहितौ, पापग्रहद्वयमध्यगतौ च भवेतां तदा सगर्भा स्त्री मरणमेतीति । उक्तञ्च बृहज्जातके- 'पापद्वयमध्यसंस्थितौ लग्नेन्दू न च सौम्यवीक्षितौ । युगपत्पृथगेव वा यदेन् नारी गर्भयुता विपद्यते ॥' इति । योगकर्त्तॄणां बलवतो ग्रहस्य मासे मरणं वाच्यमिति ॥ सगर्भामिररणयोगौ । अथ पापग्रहाः षष्ठाष्टमव्ययभावगता भवेयुः तेषु शुभग्रहा न भवेयुः; अथवा पाप- द्वयवर्ती शुक्नो वा गुरुर्भवेत्तदा सपुत्रा नारी = पुत्रेण सहिता स्त्री सद्यः = प्रसूतिकाले एव म्रियते । प्रसवकालिकोऽयं विचारः । निषेके- ऽप्यस्मिन्योगे सगर्भाया मरणं वाच्यमिति । अथ पापखेचरौ = भौमसूर्यौ क्रमेण लग्ना- [प्रथम चक्र: १-चं. श., २-मं., ३-गु., ४-मं., ५, ६, ७, ८-बु. शु., ९, १०, ११, १२-च. श. सू.] शस्त्रकृतमृत्युयोगः । स्तयातौ ( १।७ ) भवेतां ( कुजो लग्नगतः सूर्यः सप्तमगतश्च स्यादिति ) तौ च शुभ- ग्रहयुतिदृष्टिरहितौ यदि स्यातां तदा गर्भिणी स्त्री शस्त्रेण = खङ्गादिना मृत्युं समुपैति यदा मासाधिपो ( १७ श्लोके वक्ष्यमाणः ) नष्ट- करो विबलो भवेत् । अत्रेदमुक्तं भवति- निषेककाले यो ग्रहो निर्बलो भवेत्तस्य यस्मिन्मासे आधिपत्यं भव