भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 119, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 119

अरिष्टाध्यायः ॥ ४॥ ६३ उदयास्तगयोः कुजार्कयोर्निधनं शस्त्रकृतं वदेत्तथा । मासाधिपतौ निपीडिते तत्कालं झषं समादिशेत् ॥ तथा च सारावल्याम्- “जामित्रे रवियुक्ते लग्नगते वा कुजे निर्विकल्प्य । गर्भस्य भवति मरणं शस्त्रच्छेदैः सह जनन्या” इति ॥ ६-१२ ॥ शनिके साथ चन्द्रमा और सूर्य बारहवेंमें हों, मङ्गल चौथेमें हो तो उसकी माता गर्भ के साथ मरे ॥ ९ ॥ लग्न और चन्द्रमा एक साथ या अलग २ शुभग्रहकी दृष्टिसे रहित हों, पापग्रहके मध्य- में हों तो स्त्री गर्भके सहित मरे ॥ १० ॥ षष्ठ, द्वादश और अष्टम भावमें क्रूर ग्रह हों और इन स्थानोंमें शुभग्रह न हों, पापग्रहके मध्यमें शुक्र वा गुरु हो तो प्रसव होते ही स्त्री पुत्रके सहित मरे ॥ ११ ॥ आधानमें यदि दो पापग्रह लग्न और सप्तम स्थानोंमें हों शुभग्रहसे युक्त दृष्ट न हों तो जो मासाधिप नष्ट-प्रभाव हो उस समय गर्भिणी शस्त्रसे मृत्युको प्राप्त होवे ॥ १२ ॥ अथ जातस्य मातृमरणयोगाः। चन्द्राच्चतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः । व्यापारगैर्वा यदि वासरे शाज्जातस्य माता निधनं प्रयाति ॥ १३ ॥ शुक्राद्वौ विक्रमगे बलाढ्ये मन्देक्षिते मन्दसमन्विते वा । क्षीणे शशाङ्के यदि वा सपापे माता सपुत्रा म्रियतेऽचिरेण ॥ १४ ॥ लग्नाद्दिने वाऽष्टमगे धराजै पापेक्षिते सौम्यदृशा विहीने । ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥ १५ ॥ शुक्रात् कुजेऽहनि तपः सुतराशियाते चन्द्रात्त्रिकोणगृहगे रविजे रजन्याम् ॥ पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥ १६ ॥ इदानीं जातस्य मातृमरणयोगा उच्यन्ते । चन्द्राच्चतुर्थगतैर्वा नस्थितैः = ने दशम- स्थाने गतैरसद्भिः = पापग्रहैः शुभग्रहदृष्टिरहितैर्बललक्षिते काले जातस्य माता निधनं = मरणं प्रयाति । अथवा वासरे शात्सूर्याद्व्यापारगैर्दशमगतैः पापग्रहैः शुभदृष्टिमुक्तैर्जातस्य माता मरणमेतीति वाच्यम् । अथ बली सूर्यः शनिना दृष्टो युक्तो वा यदि शुक्रात्तृतीयस्थानगतो भवेत्, अथवा क्षीणो वा पापयुक्तश्चन्द्रः शुक्रात्तृतीयगो भवेत्तदा माता सपुत्रा = पुत्रेण स- हिता अचिरेण = शीघ्रमेव (प्रसवकाले) म्रियते । अथ सूर्यो वा भौमो लग्नादष्टमभावगतो पाप- ग्रहेण (शनिना) दृष्टः, शुभदृष्टिविहीनोऽक्ष भ- वेत्, ताराधिपश्चन्द्रो वृद्धिकलाविहीनोऽर्थात्क्षी- णो भवेत्तदा जातस्य माता म्रियते इति । अथ च अहनि = दिने प्रसवे जायमाने शुक्रात् नवमे पञ्चमे वा राशौ कुजे भौमे प्राप्ते तत्र पापेन= रविणा शनिना वाऽवलोकिते शुभग्रहयोगदृष्टिर- हिते, चन्द्रे निर्बले च जातस्य जननी नाशं समेति ( म्रियते ) । तथा रजन्यां = रात्रौ प्रसवे चन्द्रात्त्रिकोण-(५।९) गृहगते रविजे = शनैश्चरे, पापेन = सूर्येण भौमेन वा वीक्षिते शुभ- योगदृष्टिरहिते, शशाङ्के च त्रिबले जातस्य जननी मरणमेतीति । तथा चोक्तं सारावल्याम्- चन्द्रात् त्रिकोणराशी रविजो मातृवधं दिशति रात्रौ । शुक्रात् तथैव दिवसे भौमः पापेन सन्दृष्टः ॥ इति ॥ १३-१६ ॥