जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 126, कुल 588 में से
संदर्भ में पढ़ें१०० सटीकजातकपारिजाते- सप्तमभावमुपगते, पापविजिते = पापग्रहेण पराजिते च, मासमेकं जीवति, ततो म्रियते। अत्र विशेषोऽयमवधेयः-शुक्ले रात्रौ, कृष्णे दिने च प्रसवे सति षष्ठाष्टमस्थश्चन्द्रः शुभाशुभ- दृष्टोऽपि जातकस्यारिष्टदो न भवति- "पक्षे सिते भवति जन्म यदि क्षपायां कृष्णोऽथवाऽहनि शुभाशुभदृश्यमानः। तं चन्द्रमा रिपुविनाशगतोऽपि यत्नादापत्सु रक्षति पितेव शिशुं न हन्ति॥" इत्युक्तेः ॥३५॥ चन्द्रमा छठे या आठवें हो उसे पापग्रह देखते हों तो जातक शीघ्र मरे। शुभग्रह देखते हों तो आठ वर्ष में मृत्यु होय। उन्हीं (६।८) स्थानोंमें शुभग्रह बली पाप ग्रहोंसे दृष्ट हों, लग्नेश सप्तम भावमें हो और पापग्रहसे पराजित (हारा) हो तो १ मासमें मरे ॥ ३५ ॥ अशुभसहिते ग्रस्ते चन्द्रे कुंजे निधनाश्रिते जननिसुतयोर्मृत्युर्लग्ने रवौ तु सशखजः ॥ उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै- र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥ ३६ ॥ अशुभेन = शनिना सहिते, ग्रस्ते = राहुयुक्ते च, चन्द्रे लग्ने गतवति, कुजे निधनाश्रि- ते = अष्टमभावगते प्रसवे सति जननिसुतयोः = मातृपुत्रयोर्मृत्युर्भवति । रवौ = सूर्ये, एवं विधे जननिसुतयोः सशखजः = खङ्गाद्यायुधजनितो मृत्युर्भवति । अत्र रविग्रहणेऽशुभ- सहितेऽनेन शनिना, बुधेन, चन्द्रेण च सहिते इति व्याख्येयम्, तत्र बुधचन्द्रयोरपि पापत्वभावात् । अथ रवौ = सूर्ये उदयति = लग्नप्राप्तेऽथवा शीतांशौ = चन्द्रे, लग्नगते, अशुभैः = पापग्रहैस्त्रिकोणविनाशगैः = नवमपञ्चमाष्टमभावगतैः सद्भिस्तथा वीर्योपेतैः = बलिभिः शुभैः, सूर्ये, वा चन्द्रे, न युक्ते, न चेक्षिते, जातस्य निधनं मरणं वाच्यम्। उक्तं च- "ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेऽष्टमगे। मात्रा सार्धं म्रियत स बालकं न शङ्केन ॥ लग्ने चन्द्रेऽर्के वा पापा बलिनस्त्रिकोणनिधनेषु । सौम्यैरदृष्टयुक्ताः सद्यो मरणाय कीर्त्तिता यवनैः ॥" अथादिवोक्ते योगे रवौ चन्द्रे वा बलवच्छुभैर्युक्ते दृष्टे वारिष्टाभाव इति ॥ ३६ ॥ [कुण्डली १: लग्न (१) - श. र. रा. | अष्टम (८) - मं.] [कुण्डली २: लग्न (१) - श. रा. चं. | अष्टम (८) - मं.] लग्नमें ग्रस्त चन्द्रमा पापग्रहके साथ हो, मङ्गल अष्टम में हो तो माता और पुत्र दोनों मरें। सूर्य लग्नमें हो तो बालक और उसकी माताकी मृत्यु शस्त्रसे होवे। लग्नमें सूर्य वा चन्द्रमा हो, त्रिकोणमें (५।९) वा अष्टममें स्थित बलवान् पापग्रह हो और शुभग्रहसे युक्त दृष्ट न हो तो जातक शीघ्र मरे ॥ ३६ ॥ असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनेधनाश्रितैः ॥ अवति मरणमाशु देहिनां यदि बलिना गुरुणा न वीक्षितैः ॥ ३७ ॥ असितरविशशाङ्कभूमिजैः = शनिसूर्यचन्द्रमङ्गलैः, व्ययनवमोदयनेधना-(१२।९।१।८) श्रितैर्यात् शनिद्वादशे, सूर्यो नवमे, चन्द्रो लग्ने, भौमोऽष्टमे प्राप्तः । एते सर्वे किल यदि