जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 128, कुल 588 में से
संदर्भ में पढ़ें१०२ सटीकजातकापारिजाते- ननु चन्द्रः प्रतिमासं सर्वेष्वपि स्थानेषु गच्छतीति किं वर्षान्ते मरणमुक्तमित्युच्यते । तेषु न केवलं गते चन्द्रे किन्तु बलवति = बलयुक्ते, चन्द्रे पापैर्दृष्टे च । यस्मिन्मासे बलवान् चन्द्रः पापद्दष्टश्च पूर्वोक्तस्थानेषु चारवशाद्गच्छेत्तदा मरणं किल इति निश्चयेन मुनिभिः प्राक्तनैर्गदितं = भाषितं वक्तव्यमिति । उक्तं च सारावल्याम्— "योगे बलिनः स्थानं स्वं वा लग्नं गतेऽपि वा चन्द्रे । बलवति पापैर्दृष्टे वर्षान्ते मृत्युकालः स्यात् ॥" इति ॥ ३९ ॥ जिन अरिष्टोंके फलका समय नहीं लिखा है उनमें योग करनेवाले ग्रहोंमेंसे जो बल- वान् हो उसकी राशिपर जब गोचरका चन्द्रमा हो उस समय अरिष्ट होगा। अथवा अपनी राशिमें या लग्नराशिमें चन्द्रमा चारवश जब जाय तथा बलयुक्त रहे और पापग्रहसे दृष्ट रहे तो १ सालके भीतरमें मृत्यु होती है ऐसा प्राचीन मुनियों ने कहा है। (सु.ज्ञा.कार) ॥३९॥ अथ वर्षद्वयमायुः । वक्री शनिर्भौमगृहोपयाततः केन्द्रेऽथवा शत्रुगृहे विनाशे ॥ कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ४० ॥
वक्री = वक्रगतिकः, शनिः, भौमगृहो- (१।८) पयातः सन् केन्द्रे (१।४।७।१०भावे) अथवा शत्रुगृहे = षष्ठभावे वा विनाशेऽष्टमे भावे, विद्यमानः, सम्प्राप्तबलेन = पूर्णबलेन, कुजेन, दृष्टो भवेत् तदा प्रजातं बालकं, वर्ष- द्वयं जीवयति, तदनन्तरं मारयतीति ॥४०॥
[कुण्डली १ :]
| १२ | १ मं. | २ (लग्न) | ३ |
|---|---|---|---|
| ११ | २ वर्षायुः | ४ | |
| १० | ५ | ||
| ९ | ८ श. | ७ | ६ |
वक्री शनि मंगलके गृहमें (१।८) होकर केन्द्रमें हो अथवा छठें या ८ वेंमें हो उसे बल- वान् मंगल देखता हो तो ऐसे समयका उत्पन्न बालक दो वर्ष तक जीता है ॥ ४० ॥ अथ वर्षत्रयमायुः । बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः ॥ अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ ४१ ॥
भौमगृहे विद्यमानो बृहस्पतिर्लग्नादष्ट- मभावगतो भवति, तत्र सूर्येन्दुभौमार्कजदृष्ट- मूर्तिः=सूर्यचन्द्रमङ्गलशनैश्चरैरवलोकितश्च भ- वति, तथा भार्गवदृष्टिहीनः = शुक्रदृष्टिरहितो भवति, तदा प्रजातं बालकं त्रिभिरब्दैः लोकान्तरं प्रापयति = मारयतीत्यर्थः । उक्तं च ग्रन्थान्तरे—
[कुण्डली २ :]
| ४ | ५ | ६ चं. श. (लग्न) | ७ |
|---|---|---|---|
| ३ | ३ वर्षायुः | ८ शु. | |
| २ | ९ र. बु. | ||
| १ वृ. | १२ | ११ | १० मं. |
"मेषालिगः सुरगुरुर्निधने विशुक्रैरालोकितो गगनगैर्नृ तिकृत् त्रिवर्षात् । वर्षद्वयेन रिपुनाशगतस्तथैव वक्री शनिर्बलवता कुसुतेन दृष्टः ॥" इति ॥ ४१ ॥ बृहस्पति मंगलके गृहमें अष्टम भावमें हो (मेष या कन्या लग्नमें इस योगका संभव होता है) उसे सूर्य-चन्द्रमा-मंगल-शनि देखते हों और शुक्र न देखता हो तो वह बालक तीन वर्ष में मरे ॥ ४१ ॥