भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 134, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 134

१०८ सटीकजातकपारिजाते- अथ अष्टादशेऽब्दे मृत्युः । परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ॥ रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ ५८ ॥ रन्ध्रेशोऽष्टमेशः, लग्नाधिपतिर्लग्नेशस्तौ न सौम्यौ=पापौ वा शुभग्रहयोगरहितौ वा परस्परक्षेत्रसमन्वितौ लग्नेशोऽष्टमेशगृहे तथाऽष्टमेशो लग्नेशगृहे स्थितः, अथवा तावेव गुरुणा वियुक्त=बृहस्पतिरहिते रिःफारिभे=षष्ठे द्वादशे वा भावे भवेतां तदा जातस्त्वष्टाद- शाब्दे निधनं=मरणं प्रयाति ॥ ५८ ॥ लग्नेश-अष्टमेश दोनों पापग्रह हों, परस्पर एक दूसरेके गृहमें हों, वा १२ या ६ ठें हों गुरुसे वियुक्त हों तो वह बालक १८ वें वर्षमें मरे ॥ ५८ ॥ अथ सद्यो मृत्युः । जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ॥ देहाधिपे शुभादृष्टे जातः सद्यो विनश्यति ॥ अथ १९ वर्षे मृत्युः । तदीशस्तुङ्गभागस्थश्चेदायुरेकोनविंशतिः ॥ ५९ ॥ यत्र तत्र मन्दे = शनौ जीवस्य = बृह- स्पतेः (९।१२) अंशके=नवांशे स्थिते राहुणा निरीक्षिते च देहाधिपे = लग्नेशे शुभादृ- ष्टे=शुभग्रहैरनवलोकिते जातो बालः सद्यः = जातमात्र एव विनश्यति = म्रियते । अथास्मिन्योगे तदीशः = लग्नेशो यदि तुङ्गभागः = उच्चांशगतो भवेत्तदा तस्यैको- नविंशति-(१९) वर्षाण्यायुर्भवत्यनन्तरं म्रियते ॥ बृहस्पतिके नवांशमें शनि हो उसे राहु देखता हो और लग्नेश शुभग्रहोंसे अदृष्ट हो तो वह बालक जन्म लेते ही मरे । यदि उसका स्वामी उच्चराशिमें हो तो १९ वर्ष उसकी आयु होवे ॥ ५९ ॥ अथ २० वर्षे मृत्युः । केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ॥ षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ ६० ॥ केन्द्रेषु ( १।४।७।१० ) यथासम्भवं विद्यमानेषु पापग्रहेषु निशाकरेण = चन्द्रेण तथान्यैः शुभग्रहै-(बु.गु.शु.) श्चेक्षणवर्जि- तेषु=अनवलोकितेषु, वा यदि शीतरश्मौ = चन्द्रे लग्नात् षष्ठेऽष्टमे वा विद्यमाने (केन्द्रेषु पापेषु च) जातकः विंशतिवत्सरान्तं सुखी भवति, तदनन्तरं मरणमेतीति ॥ ६० ॥ केन्द्रोंमें पापग्रह हों उन्हें चन्द्रमा तथा शुभग्रह न देखते हों, या यदि चन्द्रमा छठें वा ८ वें स्थानमें हो तो वह बालक उत्पन्न होनेपर २० वर्षके भीतर सुखी रहे, बादमें मरे ॥ ६० ॥