जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 144, कुल 588 में से
संदर्भ में पढ़ें११८ सटीकजातकपारिजाते- बत्तीस वर्षके बाद ७० वर्ष पर्यन्त मध्यमायुका योग होता है। अथ पूर्णायुःप्रदा योगाः। चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ॥ गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५ ॥ केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ॥ ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६ ॥ उच्चान्वितैस्त्रिभिः खेटैर्लग्न रन्ध्रे शसंयुतैः ॥ रन्ध्रे पापविहीने च दीर्घमायुर्विनिर्दिशेत् ॥ ८७ ॥ रन्ध्रेस्थितैस्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ॥ लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ८८ ॥ स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ॥ शनिर्वा रन्ध्रनाथो वा दीर्घमायुर्विनिर्दिशेत् ॥ ८६ ॥ त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ लग्नेशो बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ६० ॥ षट्सप्तरन्ध्रभावेषु शुभेषु सहितेषु च ॥ त्रिषडायेपु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ६१ ॥ रिःफशत्रुगताः पापा लग्नेशो यदि केन्द्रगः ॥ रन्ध्रस्थानगता पापाः कर्मेशः स्वोच्चराशिगः ॥ योगद्वयेऽपि दीर्घायुरुपैति बहुसम्मतम् ॥ ६२ ॥ रन्ध्रे शस्तगृहधीशो यस्मिन् राशौ व्यवस्थितः ॥ तदीशोलग्ननाथश्च केन्द्रगो यदि तादृशम् ॥ ६३ ॥ द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ॥ स्वोच्चमूलत्रिकोणो वा चिरं जीवति भाग्यवान् ॥ ६४ ॥ द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ॥ द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ६५ ॥ चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ॥ शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ६६ ॥ अथाधुना येषु योगेषु समुद्भूवा मनुजाः पूर्णमायुष्यं भजन्ति ते योगाः समुच्यन्ते । तत्र सरलार्था अपि श्लोका बालबोधार्थं व्याख्यायन्ते । चतुष्टये=केन्द्रे ( १।४।७।१० ) शुभैः = शुभग्रहैर्युक्तेऽर्थाच्छुभग्रहाः केन्द्रवर्तिनो भवेयुः, लग्नेशे शुभग्रहाणामन्यतमेन संयुक्ते, गुरुणा दृष्टिसंयोगे = बृहस्पतिनावलोकिते लग्नेशे जातस्य पूर्णमायुः ( सप्तत्यूर्ध्वं शतान्तं ) विनिर्दिशेत्(१) ॥ ८५ ॥ विलग्नेशे = जन्मलग्नपतौ केन्द्रान्विते ( १।४।७।१० भावानामन्यतमगते ) गुरुणा शुक्रेण च समन्विते वा ताभ्यां = गुरुशुक्राभ्यां केन्द्रगते लग्नेशे निरीक्षितेऽपि जातस्य पूर्ण- मायुः विनिर्दिशेदिति(२) ॥ ८६ ॥ त्रिभिः शुभैः पापैर्वा खेटैः = ग्रहैः उच्चान्वितैः = स्वस्वोच्चराशिगतैस्तथाभूतैर्लग्नेशेन, रन्ध्रेशेनाष्टमभावपतिना च संयुतैस्तथा रन्ध्रेऽष्टमे भावे पापविहीने = पापग्रहरहितेऽस्मिन् योगे जातस्य दीर्घमायुः विनिर्दिशेदिति(३) ॥ ८७ ॥