जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 145, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥ ४ ॥ ११६ त्रिभिः खेटैः (पापैः शुभैर्वा) रन्ध्रस्थितैरष्टमभावगतैः, वा स्वोच्चराशिगतैर्वा स्वमित्राणां वर्गगतैर्वा स्ववर्गंगतैश्च तथा लग्नेशे = जन्मलग्नाधिपतौ बलसंयुक्ते (स्ववर्गादि- गते) जातस्य दीर्घमायुर्विनिर्दिशेदिति (४) ॥ ८८ ॥ यस्य जन्मकाले यत्र तत्र गतः शनिवा रन्ध्रनाथोऽष्टमेशः स्वोच्चस्थितेनात्मोच्चराशि- गतेन केनापि खेचरेण = ग्रहेण समन्वितो भवति तस्य जातस्य दीर्घमायुर्विनिर्दिशेदिति (५) ॥ यस्य जन्मकाले पापाः (रविभौमशनिसपापबुधक्षीणोन्दुराहुकेतवः) त्रिषडाय- (३।६।११) गताः, शुभाः (बुधगुरुशुक्रशुक्लचन्द्राः) केन्द्रत्रिकोण- (१।४।७।१०।५।९) गताः स्युस्तथा लग्नेशो बलसंयुक्तो भवेत्तस्य जातस्य पूर्णमायुर्विनिर्दिशेद