जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 149, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥ ४ ॥ १२३ व्रजेत् । अस्मिन् योगे जातो नरो ज्ञानी भवति, तथा ज्ञानाग्निदग्धाखिलपुण्यपापः सन् मोक्षभागभवति ॥ १०५ ॥ तथा च लग्ने गुरुर्भवेत्, सप्तमे भृगुः (शुकः) भवेत्, कन्यायां चन्द्रो भवेत्, धनुराशौ मेषनवांशके लग्नं भवेत्तदाऽस्मिन् योगे जातोऽपि परं पदं=ब्रह्मसायुज्यं याति ॥ १०६ ॥ कर्कलग्न धनुके अंश ( १६ अं० ४० क० के बाद २० अं० तक ) का हो उसपर गुरु हो, तीन या चार ग्रह केन्द्रमें हों तो जातक ब्रह्मपदको प्राप्त करे ॥ १०५ ॥ जिसके जन्म समयमें धनु राशिमें मेषका नवांश याने ८।१६।२०॑ लग्न हो उसमें बृहस्पति हो, ७ वें भावमें शुक्र हो और कन्या राशिमें चन्द्रमा हो वह जातक परमपद याने मोक्ष प्राप्त करता है । (सु. शा. कार) ॥ १०६ ॥ ( २ ) ┌──────┬──────────────┬──────┐ ┌──────┬──────────────┬──────┐ │ ५ │ ल. २०॑ बृ. │ ३ │ │ │ १० │ ८ │ │ ६ │ ४ │ २ │ │ ११ │ ९ वृ. ल. ३ │ │ ├──────┼──────────────┼──────┤ │ │ │ ७ │ │७ शु.र│ मोक्षयोगः १ │ १ चं.│ │ १२ │ │ ६ चं.│ ├──────┼──────────────┼──────┤ │ │ │ │ │ ८ │ │ ११ │ │ १ │ ३ शु. │ ५ │ │ ९ │ १० मं. श. │ १२ │ │ │ २ ४ │ │ └──────┴──────────────┴──────┘ └──────┴──────────────┴──────┘ अथ आयुषः सप्तविधता । बालारिष्टं योगसञ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः । दिव्यं योगाभ्यासमन्त्रक्रियाद्यैरायुः सप्तैतानि सङ्कीर्तितानि ॥ १०७ ॥ इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते बालारिष्टाध्यायः चतुर्थः ॥ ४ ॥ 𑁍𑁍𑁍 अथेदानीमायुषः सप्त भेदा निरूप्यन्ते । प्रथमं बालारिष्टं वर्षाष्टकं यावत् । द्वितीयं योगसञ्जातं विंशतिवर्षं यावत् । तृतीयमल्पमल्पायुरिति द्वात्रिंशद्यावत् । तेषां त्रयाणां भङ्गादतिक्रमणाच्चतुर्थं मध्यममायुः सप्ततिपर्यन्तम् । ततो दीर्घमायुः शतान्तं तत्पञ्चमम् । ततो दिव्यं देवतुल्यमायुस्तत्षष्ठम् । ततोऽप्यूर्ध्वं योगाभ्यासमन्त्रक्रियाद्यैर्जातमसङ्ख्यमा- युस्तत्सप्तममिति सप्त भेदा भवन्त्यायुषः । तेषां पूर्वपूर्वस्य भङ्गाययोत्तरं वर्द्धते । अथा- युषां प्रमाणभेदा ये प्रदर्शितास्ते सत्यपि ग्रहयोगे न भवन्ति सर्वेषामनाचारादिदुष्टक्रिया- निरतानाम् । तथोक्तं चायुःप्रकरणे केशवेन— "स्याद्दिष्टं सुशीलपथ्यसुभुजां न स्यादिदं पापिनाम्" इति ॥ १०७ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । चतुर्थेऽरिष्टसञ्ज्ञेऽस्मिन्नध्याये पूर्णतां गता ॥४॥ ( १ ) बालारिष्ट ८ वर्ष तक, (२) योगारिष्ट २० वर्ष तक, (३) अल्पायु ३२ वर्ष तक, इनके भङ्गसे (४) मध्यायु ७० वर्ष तक, (५) दीर्घायु १०० वर्ष तक, उसके बाद (६) देवायु उसके अनन्तर ( ७ ) योगाभ्यास, मन्त्रादिके अनुष्ठानादि द्वारा असङ्ख्यायु ये सात प्रकारके आयुके भेद कहे गये हैं। (सु. शा. कार) ॥ १०७ ॥ इति जातकपारिजाते चतुर्थोऽध्याये 'विमला' हिन्दीटीका समाप्ता ॥ 𑁍𑁍𑁍