जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 150, कुल 588 में से
संदर्भ में पढ़ेंअथ आयुर्दायाध्यायः ॥ ५ ॥ अथाधुनाऽऽयुर्दायाध्यायो व्याख्यायते । तत्र पूर्वोक्तारिष्टयोगरहितानामेव जनिमता- मायुर्र्दायविचारः कर्त्तव्यः । समुपस्थिते चायुर्विचारे प्राक्तनैः पराशराद्यैर्निर्दिष्टान्यायूष्यत्रोच्यन्ते- निसर्गपिँड्यांशकरश्मिचक्रनक्षत्रदायाष्टकवर्गजानि । पराशराद्यैः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ १ ॥ निसर्गेति । पराशराद्यैर्मुनिभिः कथितानि यानि निसर्ग-पिण्डां-शक-रश्मि-चक्र- नक्षत्र-दायाष्टकवर्गजानि अष्टावायूंषि तानि सङ्गृह्य क्रमशोऽहं प्रवच्मि ॥ १ ॥ पराशर आदि ने जिन निसर्गायु, पिण्डायु, लग्नायु, अंशकायु, रश्मिजायु, चक्रायु, नक्षत्राद्यु, अष्टवर्गजायु को कहा है उन आयुर्दायोंको संग्रह करके क्रमशः कहता हूँ ॥ १ ॥ अथ निसर्गायुषो वर्षसङ्ख्या । नखाः शशी द्वौ नवकं धृतिश्च कृतिः खवाणा रविपूर्वकानाम् । इमा निरुक्ताः क्रमशो ग्रहाणां नैसर्गिके ह्यायुषि वर्षसंख्याः ॥ २ ॥ अथ नैसर्गिके सूर्यादीनां नखाद्या वर्षसङ्ख्या बोद्धव्याः । सूर्यस्य = २० वर्षाणि । चन्द्रस्य = १ व० । मं०=२ व । बु० = ९ । गु० = १८ । शु० = २० । श० = ५० । उक्तञ्च सारावल्याम्— "विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत् । वर्षाणामपि सङ्ख्याः सूर्यादीनां निसर्गभवाः” ॥ इति । अत्रोक्तानि निसर्गायुर्वर्षाणि ग्रहेषूच्चगतेष्विति । तत्काले च स्थितिवशेन कानिचित् क्षीयन्ते, तेषां स्पष्टीकरणमग्रतो द्रष्टव्यमिति ॥ २ ॥ ग्रहोंकी निसर्ग आयु इस प्रकार है-२० वर्ष सूर्यकी, १ वर्ष चन्द्रमाकी, २ वर्ष मंगलकी, ९ वर्ष बुधकी, १८ वर्ष बृहस्पतिकी, २० वर्ष शुक्रकी और ५० वर्ष शनिकी आयु है ॥ २ ॥ अथ पिण्डायुषो वर्षसंख्या । नवेन्दवो बाणयमाः शरदमा दिवाकराः पञ्चसुवः कुपक्षाः । नखाश्च भास्वत्प्रमुखग्रहाणां पिण्डायुषोऽब्दा निजतुङ्गगानाम् ॥ ३ ॥ इदानीं ग्रहाणां पिण्डायुर्वर्षाण्युच्यन्ते । निजतुङ्गगानां स्वकीयोच्चगतानां भास्वत्प्रमु- खग्रहाणां=सूर्यादीनां नवेन्दादयः पिण्डायुषोऽब्दाः पठितास्ते चानेन द्योत्यन्ते । सूर्यस्य= १९ वर्षाणि । चं ० = २५ व ० । मं ० = १५ व ० । बु ० = १२ व ० । बृ ० = १५ व ० । शु ० २१ व ० । श ० = २० व ० । तथैव सारावल्याम्— एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः । तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु ॥ गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः । विंशती रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थिते ॥ बृहज्जातकेऽपि— "मययवनमणित्थशक्तिपूर्वैर्दिवसकरादिषु वत्सराः प्रदिष्टाः । नवतिथिविषयाश्विभूतरुद्रैर्दशसहिता दशभिः स्वतुङ्गभेषु” ॥ इति । अत्रोक्तानि वर्षाणि ग्रहाणां स्वस्वपरमायुःप्रमाणानि । एतानि किल वर्षाणि तुङ्गस्थानां ग्रहाणां वर्त्तन्ते । तत्कालस्थितौ स्पष्टीकरणमग्नेद्रष्टव्यम् ॥ ३ ॥ उच्च राशि स्थित सूर्यादि ग्रहोंकी पिण्डायु इस प्रकार है—सूर्यकी १९ वर्ष, चन्द्रमाकी