जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 158, कुल 588 में से
संदर्भ में पढ़ें१३२ सटीकजातकपारिजाते- युता' इति लक्षणलक्षिता भवेत् तदा राशिसमं = लग्नेन यावन्तो राशयो मेषादयो भुक्तास्ता- वन्ति वर्षाण्यायुर्दायं ददाति । तत्रापि मासाद्यं भुक्तांशवशाज्ज्ञेयम् । तथोक्तं बादरायणेन- होरादयोऽप्येवं बलयुक्तान्यानि राशितुल्यानि । वर्षाणि संप्रयच्छन्त्यनुपाताच्चांशकादि फलम् ॥ इति । अत्र = सत्यमतांशायुर्दाये क्रूरोदये सार्द्धोदितोदितेत्यादिना यः अपचयः पूर्वाचार्यमतेन क्रियते स न कार्यः । तथा प्रथमोपदिष्टैः 'नवेन्दवो बाणयमा' इत्यादि पूर्वोत्तरैरेवं 'ग्रहदायं परमायुषः स्वरांशमिति' च तैरायुषः स्पष्टीकरणं न कर्त्तव्यमिति ॥ अथात्रायुर्विषये सत्यमताङ्गीकरणमाह-सत्येति । अत्रास्मन्नायुःसाधनेऽन्या- चार्यापेक्षया सत्योपदेशो वरं = समीचीन इति । किन्तु वरमपि सत्यमतं बहुवर्गणाभिः = स्वतुङ्गवक्रोपगतैस्त्रिसङ्गुणमित्यादिभिरनेकगुणनाभिरयोग्यङ्कुर्वन्ति=विनाशयन्ति । यथा कश्चि- द्व्रहः स्वीय एव षड्वर्गादौ भवेत्तदा तस्य स्वगृहगतत्वादायुर्द्विगुणं कुर्वन्ति । तस्यैव स्वद्रे- ष्काणे गतत्वात्पुनर्द्विगुणमेवं तस्यैव स्वोच्चगतत्वात् त्रिगुणमेवं पुनः पुनर्गुणनाभिरनवस्था भवति । तथा हि- वर्गोत्तमे स्वरांशौ द्रेष्काणे स्वे नवांशके द्विगुणम् । वक्रोच्चगते त्रिगुणं द्विगुणं कार्यं यथासङ्ख्यम् ॥ इत्येवं बहुवर्गणाभिः सत्यमतमयोग्यं कुर्वन्ति । अत एव बहुघ्नतायां = पुनः पुनर्गुणनायां यदेकं भूरि = बहुतरं तदेव कार्यम् । पुनः पुनः द्विगुणे सकृदेव द्विगुणम् । यत्र द्विगुणत्वं त्रिगुणत्वं च प्राप्तं तत्र सकृत्त्रिगुणम् । पुनः पुनस्त्रैगुण्ये सकृदेव त्रिगुणमिति । एतदाचार्यक- माचार्याभिमतमिति । तथाऽऽहाचार्यः स्वल्पजातके वराहः- वर्गोत्तमे दृकाणे स्वनवांशके सकृद् द्विगुणम् । वक्रोच्चयोर्द्विगुणितं द्वित्रिगुणत्वे सकृत् त्रिगुणम् ॥ इति ॥ अत्र यथा बहुघ्नतायामेकैव महती गुणना क्रियते तथैव बहुवारं हानिष्वपि प्राप्तास्वेकवा- रमेवापहानिः प्रकर्त्तव्या । तथा च भगवान् गार्गिः- .........'ततोऽन्यासु बहुष्वपि । प्राप्तास्वेकैव कर्त्तव्या या स्यात्तासु महत्तरा । ततोऽपि गुणना कार्याऽप्येकैव महती सकृत् ॥ इत्याह ॥ १७-२१ ॥ इस अध्यायके तीसरे श्लोकमें सूर्यकी १९ वर्ष, चन्द्रमा की २५ वर्ष इत्यादि क्रमसे ग्रहायु कही है । परन्तु जीवशर्माजीका मत है कि मनुष्योंके परमायु का प्रमाण १२० वर्ष ५ दिन हैं, और सूर्यादि सात ग्रह हैं इन सबकी बराबर आयु उच्चमें १७ वर्ष, १ मास, २२ दिन, ८ घटी, ३४ पल, १७ विपल हैं और नीचमें इसका आधा वर्षादि ८।६।२६।४।१७।८।३० है, बीचमें अनुपातसे कहा है । और कर्म चक्र पातादि पहले ही के प्रकार कहा है । इस बात को केवल जीव शर्माने अपनी युक्तिसे कहा है । इसमें किसी की सम्मति नहीं है । यवनेश्वर सत्याचार्यादिके मतानुसार वराहमिहिरने जो प्रमाण कहा है वही ठीक है । किसी भी राशिमें ग्रह जिस राशिके नवांशमें हों उसके बराबर वर्ष ग्रहायु जाने । जैसे जहाँ तहाँ मेषके नवांशमें होने से १ वर्ष, वृष नवांशमें २ वर्ष, यों वृद्धि क्रमसे मीनके नवांशमें १२ वर्ष ग्रहायु होती है