जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 166, कुल 588 में से
संदर्भ में पढ़ें१४० सटीकजातकपारिजाते- निरीक्षितो भवेत्तदाऽसौ पापग्रहो युद्धे = ग्रहयुद्धे विजितस्य=पराजितस्य ग्रहस्य दाये=महा- दशायां स्वान्तर्दशां प्राप्य तस्यां नराणां मरणं करोतीति विज्ञा वदन्ति । इदमुक्तं भव- ति । प्रत्येकस्य ग्रहस्य दशायां सर्वेषामन्तर्दशा भवन्ति । तत्काले कथितलक्षणलक्षितः पापग्रहः युद्धे विजितस्य ग्रहस्य दशायामात्मीयावान्तर्दशायां पुरुषस्य मरणं करोतीति । आरस्य = भौमस्य पञ्चमी दशाऽर्थाद्यद्दशायां जन्म भवेत्ततः पञ्चमी दशा यदि मङ्ग- लस्य स्यात्तदा जातस्य भौमदशायां मृत्युं दद्यात् = मरणं कुर्यादित्यर्थः । एवं गुरोः षष्ठी, शनेश्चतुर्थी, राहोः पञ्चमी दशा मृत्युप्रदा भवति । तथा नीचारातिविमूढस्य क्रमेण विप- त्प्रत्यरिनैधना दशा मृत्युं दद्युः । नीचगतस्य ग्रहस्य विपत्तृतीया दशा, अरातिः = शत्रु- स्तद्गृहं गतस्य प्रत्यरिः = पञ्चमी दशा, विमूढोऽस्तङ्गतस्तस्य नैधनाऽष्टमी दशा मृत्युकारणं भवति । तद्दशायां म्रियत इत्यर्थः । ता एव दशा यदि पापयुक्ता अर्थात्पापग्रहसम्बन्धिन्यो भवेयुस्तदा विशेषतो निश्चयेन मरणं कुर्वन्तीति । यस्य यस्य भावस्य विचारोऽपेक्षितस्तत्तद्भावानामर्थेशो द्वितीयेशः, कामेशः = सप्तमे- शश्च, यो भवति तद्दशासु तथा तदन्तर्दशासु च तत्तद्भावस्य विनाशः स्यात् । यथा तृतीयस्य विचारोपस्थिते चतुर्थेशनवमेशयोर्दशायामान्तर्दशायां च तृतीयभावस्य विनाशो वाच्यः । एवमेव सर्वत्र विचारणीयम् । अत्र न केवलं द्वितीयेशसप्तमेशदशाऽन्तर्दशासु मरणं वाच्यम- पितु तेन द्वितीयेशेन सप्तमेशेन वा युक्ता ईक्षिता वा तत्तद्भावकारका ग्रहा यदि भवेयुरिति । कारका ग्रहा पूर्वमेवोक्ताः ( द्वितीयाध्याये ५१ श्लोके ) । अष्टमस्य = जन्मलग्नादष्टमभावस्य त्रिभागांशपतिः = द्रेष्काणेशः । एतदुक्तं भवति । जन्मकाले लग्ने यो द्रेष्काणस्तेनैव द्रेष्काणेनाष्टमभावेऽपि भवितव्यम् । यदि लग्ने प्रथमो द्रेष्काणस्तदाऽष्टमेऽपि प्रथम एव द्रेष्काणो ग्रहीतव्यः । द्वितीये द्वितीयस्तृतीये तृतीय इति । 'उदयाद् द्वाविंशतितमं द्रेष्काणं कारणं मृत्योरिति' वक्ष्यमाणवचनात् । तद्द्रेष्काणपतिर्य- स्मिन् गृहे तिष्ठति तद्गृहं शनौ प्राप्ते सति ( गोचरेण ), अथवा तद्द्रेष्काणस्य यः स्वामी स यस्मिन्नवांशे स्थितो भवेत्तन्नवांशराशिमुपगते शनौ ( गोचरेण ) जातस्य मरणं भवेत् । अत्र राशिनवांशयोर्बलवतो ग्रहणं कर्त्तव्यमिति ॥ ४५-५१ ॥ तीन मण्डलों में से एकमें भी यदि दुर्बल पापग्रह हो और शुभग्रहसे युक्त न हो तो उसकी दशाके अन्त्यमें मृत्युको कहे ॥ ४५ ॥ राशियोंकी सन्धिमें स्थित ग्रहोंकी दशा रोग देनेवाली होती है । ३० वें अंशको अति- क्रमण करनेवाले ग्रहोंकी दशामें मनुष्योंका मरण होता है ॥ ४६ ॥ षष्ठ, अष्टम भवनमें स्थित शत्रु-दृष्ट-मूर्ति पापग्रह पापग्रहकी राशिमें प्राप्त हों तो अपनी अन्तर्दशामें युद्धमें विजितग्रहकी दशामें मनुष्योंके मरणको करते हैं ॥ ४७ ॥ जिस ग्रहकी दशामें जन्म हो उससे मङ्गलकी दशा यदि ५ वीं हो, गुरु की दशा ६ ठीं हो, और शनि की दशा ४ थी हो एवं राहुकी दशा ५ वीं हो तो ये दशायें मृत्यु देनेवाली होती हैं। जो ग्रह अपने नीचमें हो उसकी ३ री दशा, जो शत्रु गृहमें हो उसकी ५ वीं दशा, जो सूर्यके साथ अस्त हो उसकी ८ वीं दशा मृत्यु देती है। यदि वे दशा पापग्रह सम्बन्धी हों तो निश्चय ही मरण होता है। विचारणीय भावसे २ रे और ७ वें भावके स्वामीकी दशा तथा अन्तर्दशामें उस २ भाव की हानि कहनी चाहिये । यदि उस भावके द्वितीयेश या सप्तमेशसे उस भावका कारक ग्रह युक्त या दृष्ट हो । जन्मकालिक अष्टम भावमें जो द्रेष्काण हो उसका स्वामी जिस राशिमें स्थित हो उस राशिमें चार वश शनिके जानेपर अथवा वह द्रेष्काणेश जिसके नवांशमें हो उस नवांश- राशिमें शनिके जानेपर मरण कहना चाहिये ॥ ४८-५१ ॥