जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 167, कुल 588 में से
संदर्भ में पढ़ेंआयुर्दायाध्यायः ॥ ५ ॥ १४१ अथ छिद्रग्रहाः । रन्ध्रेश्वरो रन्ध्रयुक्तो रन्ध्रद्रष्टा खरेश्वरः । रन्ध्राधिपयुतश्चैव चतुःषष्ट्यंशनायकः ॥ ५२ ॥ रन्ध्रेश्वरातिशत्रुश्च सप्त छिद्रग्रहाः स्मृताः । तेषां मध्ये बली यस्तु तस्य दाये मृतिं वदेत् ॥ ५३ ॥ तत्तद्भावाद्व्ययस्थस्य तद्भावाधीशवरस्य वा । वीर्योपेतस्य खेटस्य पाके मृत्युर्न संशयः ॥ ५४ ॥ अथाधुना मारकग्रहा उच्यन्ते । रन्ध्रेश्वरो लग्नादष्टमभावपतिः (१), रन्ध्रयुक्तोऽष्ट- मभावस्थितो ग्रहः (२), रन्ध्रद्रष्टा = अष्टमभावे यस्य सर्वाधिका दृष्टिर्भवेत् (३), खरेश्वरो जन्मलग्ने यो द्रेष्काणस्तस्माद्द्वाविंशो द्रेष्काणः खरस्तस्येशः (४), रन्ध्राधिपयुतश्चैवा- ष्टमेशेन सहितो ग्रहो वाऽष्टमेशाधिष्ठितराशीशः (५), चतुःषष्ट्यंशनायकः = जन्मकाले चन्द्रो यस्मिन्नवांशे भवति तस्माच्चतुःषष्टितम—(६४) नवांशेशोऽर्थाद्यावन्मिते नवांशे यस्मिन् राशौ चन्द्रो भवेत्तावन्मितो नवांशस्तस्मादष्टमभावस्य चतुःषष्टितमो भवति तत्पतिः (६), रन्ध्रेश्वरातिशत्रुश्च = अष्टमेश्वरस्यातिशत्रुर्यो ग्रहो भवेत्सोऽपीत्येते (७) सप्त छिद्रग्रहा उच्यन्ते । तेषां सप्तग्रहाणां मध्ये यो ग्रहो बलीयान् भवति तस्य दाये = दशायां नरस्य मृति = मरणं वदेत् । एवं प्रत्येकस्य भावस्य विचारः कर्त्तव्यः । पक्षान्तरमुपदिशति- वा तत्तद्भावात् = यस्य यस्य भावस्य विचारः क्रियते तत्तद्भावात् व्यये = द्वादशे स्थितस्य ग्रहस्य, तद्भावाधीशवरस्य = तद्भावव्ययाधीशवरस्य चानयोः मध्ये वीर्योपेतस्य = बलीयतः खेटस्य पाके=दशायां तद्भावस्य मृत्युर्भवतीत्यत्र संशयो नेति । अथ तत्तद्भावादित्यत्र श्लोके पाठान्तरं फलदीपिकायाम्— 'तत्तद्भावाद् व्ययस्थस्य तद्भावव्ययपस्य च । वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात्' इति ॥ ५२-५४ ॥ अष्टमेश १, अष्टममें स्थित २, अष्टमको देखनेवाला ३, खरेश्वर ४, अष्टमेशसे युत ग्रह ५, चतुःषष्टि अंशका स्वामी ६, रन्ध्रेश्वरका अतिशत्रु ७ ये सात छिद्रग्रह हैं। इन सातों में जो बली हो उसकी दशामें मृत्युको कहे। उस उस भावका व्ययस्थ वा उस उसभावके व्ययेश इन दोनोंमें बलवान् ग्रहकी दशामें मृत्यु होती है इसमें सन्देह नहीं है ॥ ५२-५४ ॥ अथ दृक्काणस्वरूपम् । कुलीरमीनालिगता दृगाणाः मध्यावसानप्रथमा भुजङ्गाः । अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशो निगडो विहङ्गः ॥ ५५ ॥ विलग्नजन्मद्रेक्काणाद्यस्तु द्वाविंशतिः खरः । सुधाकरोपगांशात्तु चतुःषष्ट्यंशको भवेत् ॥ ५६ ॥ अथाधुना द्रेक्काणानां स्वरूपाण्युच्यन्ते-कुलीरेत्यादिना । कुलीरमीनालिगता मध्याव- सानप्रथमा दृगाणा भुजङ्गा उच्यन्ते । कुलीरस्य ( कर्कस्य ) मध्यो द्वितीयो द्रेष्काणः, मीन- स्यावसानोऽन्तिमो द्रेष्काणः, अलेर्वृश्चिकस्य प्रथमो द्रेष्काणश्चेति त्रयो द्रेष्काणा भुजङ्गाः सर्पाख्या भवन्ति । अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशः, विहङ्गः ज्ञेयः । यथा वृश्चिकस्य द्वितीयः पाशसंज्ञः । मकरस्य प्रथमो निगडाख्यः । सिंहस्य प्रथमो विहङ्गः = पक्षी द्रेष्काण उक्तः । अतोऽपि विशेषा बृहज्जातके द्रेष्काणाध्याये द्रष्टव्याः । प्रयोजनं पूर्वमुक्तं 'खगे दृगाणै' तथा 'लग्नत्रिभागेऽण्डजसर्पकोलाः' इत्यादि । अन्यच्च, षट्पञ्चाशिकायाम्—