जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 168, कुल 588 में से
संदर्भ में पढ़ें१४२ सटीकजातकपारिजाते- “अंशाफाज्ज्ञायते द्रव्यं द्रेष्काणैस्तस्कराः स्मृताः । राशिभ्यः कालदिग्देशा वयो जातिश्च लग्नपात्” इति । अथ खरः परिभाष्यते । जन्मकाले लग्ने यो द्रेष्काणस्तस्माद् द्वाविंशतिसङ्ख्यको द्रेष्काणः खरसंज्ञक उच्यते । यदि लग्ने प्रथमो द्रेष्काणः स्यात्तदा लग्नादष्टमभावस्य प्रथम- द्रेष्काणः खरः । एवं लग्ने द्वितीयो द्रेष्काणस्तदाऽष्टमस्य द्वितीयो द्रेष्काणः खरः इति । स खरो जन्मकाले सुधाकरश्चन्द्रो यस्मिन्नवांशे स्थितो भवेत्तस्माच्चतुः षष्ठ्यंशकः (६४) भवेत् । चन्द्रो यस्य भावस्य यस्मिन्नवांशे भवेत्तस्मादष्टमभावस्य तावन्मितो नवांशः खरः । प्रति- राशि नव नवांशालयो द्रेष्काणाश्चेति ७ x ९=६३ नवांशाः । तथा ७ x ३=२१ द्रेष्काणाः । वर्त्तमानश्चैक इति योगे तथात्वमुपपद्यते । खरस्य प्रयोजनमुक्तं ‘खरेश्वरो मारकग्रहः’ । तथैव बृहज्जातकेऽपि— द्वाविंशः कथितस्तु कारणं द्रेष्काणे निधनस्य सूरिभिः । तस्याधिपतिर्भूपोऽपिवा निर्याणं स्वगुणैः प्रयच्छति ॥ इति ॥ ५५-५६ ॥ अब द्रेष्काणोंके स्वरूप कहते हैं। कर्कराशिका २ रा, मीनका ३ रा, वृश्चिका १ ला, द्रेष्काण भुजङ्ग ( सर्प ) कहलाता है। वृश्चिकका २ रा पाश, मकर का १ ला, निगड़ और सिंहका १ ला, विहङ्ग कहलाता है। लग्नके जिस द्रेष्काणमें जन्म हो उससे २२ वां द्रेष्काण याने ८ वें भावका उस तुल्य द्रेष्काण 'खर' कहलाता है। वह 'खर' चन्द्रमा जिस नवांशपर हो उससे ६४ वां नवांश भी होता है। (सु० शा० कार) ॥ ५५-५६ ॥ अथ जीवदेहमृत्युसंज्ञाः । लग्नं पञ्चहतं च मान्दिसहितं प्राणस्फुटं प्राणिनाम् चन्द्रस्य स्फुटमष्टकेन गुणितं देहं समान्दिस्फुटम् । सप्तघ्नं गुलिकस्फुटं सह दिवानाथेन मृत्युर्भवेत् तस्माज्जीवकलेवरैक्यविपुले जातश्चिरं जीवति ॥ ५७ ॥ लग्नं तात्कालिकं पञ्चभिर्हतं=गुणितं कार्यं, ततो मान्दिसहितं = गुलिकेन युक्तञ्च कार्यं तदा तत् प्राणिनां प्राणस्फुटं = जीवाख्यं भवति । अथ चन्द्रस्य स्फुटं राश्यादिकं अष्टकेना- ष्टसंख्यया गुणितं, समान्दिस्फुः = गुलिकस्पष्टराश्यादिना सहितञ्च कार्यं तत् देहं=देहसंज्ञकं भवति । अथ च गुलिकस्फुटं = गुलिकस्य राश्यादि सप्तघ्नं=सप्तगुणितं कृत्वा दिवानाथेन= स्पष्टसूर्येण सह युक्तं कार्यं तदा तन्मृत्युसंज्ञकं भवति । तस्मान्मृत्युसंज्ञकात् जीवकलेवरैक्य- विपुले = जीवदेहयोर्योगेऽधिके ( मृत्यु < जीव + देह ) जातश्चिरं जीवति=दीर्घायुर्भवति । अर्थादेव मृत्युमानात् जीवदेहयोगे न्यूनेऽल्पायुः ( मृत्यु > जीव + देह ) इति ॥ ५७ ॥ लग्नको ५ से गुणाकर उसमें स्पष्ट गुलिक जोड़नेसे प्राणियोंका स्पष्ट ‘प्राण’ ( जीव ) होता है। स्पष्ट चन्द्रमाको ८ से गुणाकर उसमें गुलिक जोड़नेसे 'देह' स्पष्ट होता है। स्पष्ट गुलिकको ७ से गुणा कर स्पष्ट सूर्य जोड़ने से 'मृत्यु' स्पष्ट होता है। इन प्राण, देह, और मृत्युओंका प्रयोजन कहते हैं—उससे याने मृत्युसे जीव और देहका योग यदि अधिक (मृत्यु < जीव + देह) हो तो प्राणी चिरजीवी (दीर्घायु) होता है। यदि मृत्युसे जीव और देहका योग कम (मृत्यु > जीव + देह) हो तो अल्पायु कहनी चाहिये। (सु.शा.कार) ॥ अथ निर्याणसमयाः । जीवमृत्युतनुयोगराशिगे गोचरेण रविजे धनक्षयः । तन्त्रिकोणगृहगेऽथवा नृणां तन्नवांशकयुते मृतिं वदेत् ॥ ५८ ॥