जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 191, कुल 588 में से
संदर्भ में पढ़ेंजातकभङ्गाध्यायः ॥ ६ ॥ १६५ अमरगुरौ = बृहस्पतौ मन्दाराहिसमन्विते = शनिभौमराहुभिर्युक्ते शुक्रेन्दुपुत्रेक्षिते = शुक्रबुधाभ्यामवलोकिते च जातः शूद्रकलेवरोऽपि=शूद्रजातिरपि यदि भवति तथापि निखि- लां विद्यां श्रियं = सम्पदञ्चोपैति = प्राप्नोति । तथोक्तं सर्वार्थचिन्तामणौ- “ध्वजाहिमन्दैः सहितेन्द्रपूज्ये शुक्रेक्षिते वा शशिसूनुदृष्टे । शूद्रोऽपि चेद्विप्रसत्त्वमेति विद्यां च सर्वामधिगम्य जातः” इति ॥ तारानाथविकर्त्तनौ = चन्द्रसूर्यौ गदगतौ = षष्ठभावगतौ सौरेण = शनैश्चरेण वीक्षितौ च भवेतां तदा जातोऽसौ नीचविहितोपायेन = नीचजातीनां जीवने य उपायो विहितस्तेन ( दासादिकर्मणा ) सञ्जीवनं = जीवनवृत्ति समुपैति । अर्थादस्मिन्योगे कुलीनोऽपि जातो नीचवृत्तिको भवतीति तात्पर्यम् ॥ ३ ॥ गुरु यदि शनि, मङ्गल और राहुसे युक्त हो, शुक्र और बुधसे दृष्ट हो तो जातक शूद्र कुलमें उत्पन्न होने पर भी सम्पूर्ण विद्या और लक्ष्मीको प्राप्त करता है । लग्नसे छठे स्थानमें चन्द्रमा और सूर्य हों उन्हे शनि देखता हो तो वह जातक नीच कर्मके द्वारा जीविका पावे ॥ ३ ॥ केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेटैरदृष्टे भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः ॥ सौम्यादृष्टेऽर्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या- दर्कीन्द्वर्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः स्यात् ॥ ४ ॥ दिनकरतनये = शनैश्चरे केन्द्र-( १।४।७।१० ) स्थे वा विलग्ने = लग्नगते, सौम्य- खेटैः = शुभग्रहैरदृष्टे = अनवलोकिते तथा भूसुनोर्भौमस्य कालहोरासमये जातो मनुजो भिक्षुको याचको, दासभूतोऽन्यस्य भृत्यश्च भवति । अथ सरुधिरे=भौमसहिते शशिनि=चन्द्रे मेषराशि- गते सौम्यैः = शुभैरदृष्टे, अर्किणा = शनिना दृष्टे च जातो भिक्षुकः स्यात् । अत्र सर्वार्थ- चिन्तामणौ- मेषे शशांके रविसूनुदृष्टे भिक्षाशनो भूमिसुतेन दृष्टे । निःश्रीर्विलग्नस्य निशाकरस्य लुब्धो दिनेशात्मजदृष्टियोगात् ॥ शुभग्रहाणामवलोकनेन हीनाद्भवैदत्र समन्विताद्वा । तत्कालहोराधिपतौ धराजे केन्द्रे शनौ चेद्यदि वा विलग्ने । शुभग्रहाणामवलोकहीने दासस्तु भिक्षाशनदेहशीलः ॥ इति ॥ अर्कीन्द्वर्कैः=शनिचन्द्रसूर्यैः सकेन्द्रैः = केन्द्र-( १।४।७।१० ) गतैः जातो नरो जड- तनुः = प्रज्ञाहीनशरीरः, अधनः = निर्धनः, अन्यभुक्ताशनः=परोच्छिष्टभोजी च भवति । अत्र प्रसङ्गात् कालहोराज्ञानप्रकारः- वाराद्द्यर्घटिकाद्विघ्ना स्वाङ्कहच्छेषवर्जिता । सैका तत्ता नगैः कालहोरेशा दिनपात् क्रमात् ॥४॥ शनि केन्द्रमें वा लग्नमें हो, उसको शुभग्रह न देखते हों तथा मङ्गलकी कालहोरामें उत्पन्न हो तो मनुष्य भिक्षुक तथा दास होता है । चन्द्रमा मङ्गलके साथ मेष राशिमें हो उसको शुभ ग्रह न देखता हो और शनि देखता हो तो भिक्षुक होता है। केन्द्र में शनि, चन्द्र और सूर्य हों तो जड़ शरीर हो, दरिद्र हो, दूसरेका जूठा खानेवाला हो ॥ ४ ॥ मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्यभे वाक्पतौ जातो भिक्षुक एव शोकजलधौ मग्नो विदेशं गतः ॥ धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे