जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 190, कुल 588 में से
संदर्भ में पढ़ेंअथ जातकभङ्गाध्यायः ॥ ६ ॥ तत्रादौ जातकभङ्गपरिभाषा । केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः ॥ केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः स्युः ॥ १ ॥ अथातो जातकभङ्गाध्यायो व्याख्यायते । तत्र को नाम जातकभङ्ग इत्युच्यते । केचिदिति । राजयोगस्य = यस्मिन् योगे जातो राजा भवति तस्य राजयोगस्य भङ्गाः = नाश- काः केचिद्योगाः ( मेषे जूकनवांशक इत्यादिवक्ष्यमाणाः ) केचिद्रेका नाम दारिद्र्ययोगाः ( लग्नेशे बलवर्जिते इत्यादिवक्ष्यमाणाः ) केचित्प्रेष्या योगाः (माने रवावित्यादिवक्ष्यमाणाः) के च केमद्रुमयोगाः ( लग्नस्थिते हिमकरे इत्यादिवक्ष्यमाणाः ) इत्येते चत्वारो जातभङ्गा- काराः स्युरिति । एषां चतुर्णां मध्ये कश्चिदेको योगो यस्य जन्मकाले भवति तस्य जीवनं व्यर्थमिवेति भावः ॥ १ ॥ कितने राजयोगके नाशक योग, कितने रेका नामक दरिद्रयोग, कितने प्रेष्ययोग, कितने केमद्रुमयोग ये चार प्रकारके जातकभङ्ग ( शुभ योग नाशक ) कहे गये हैं । ( सु० शा० कारः ) ॥ १ ॥ राजभङ्गाः । मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः कन्याराशिंगते यदा भृगुसुते कन्यांशके भिक्षुकः ॥ नीचर्क्षे त्वतिनीचभागसहिते जातो दिवानायके राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २ ॥ यस्मिन्योगे जातो राजाऽपि दुःखभागभवतीत्युच्यते । राजश्रेष्ठकुलाग्रजोऽपि = राज्ञां श्रेष्ठकुले उत्तमकुलेऽग्रजः प्रथमजन्माऽपि, दिनकरे = सूर्ये मेषे (स्वोच्चे) राशौ जूकनवांशके = तुलानवांशे ( मेषस्य विंशतिभागादुपरि त्रयोविंशांशे सप्तमांशे ( २०°-२३°२०' ) विद्यमाने तस्मिन् पापग्रहेणेक्षिते च यदि जायते तदाऽसौ जातो निर्धनो भवति । एतदुक्तं भवति राजकुले यः प्रथमः पुत्रः स राजा भवति, परन्तु तस्य जन्मकाले यदीदृशयोगो भवेत्तदा (राज्ञो ज्येष्ठपुत्रोऽपि ) निर्धन एव भवति । एवं भृगुसुते = शुक्रे कन्याराशिंगते कन्यांशके च विद्यमानेऽर्थात् कन्याया नवमे नवांशे ( २६°४०'-३०° ) विद्यमाने जातो भिक्षुको याचको भवति । अथ च दिवानायके = सूर्ये नीचर्क्षे = तुलाराशौ त्वतिनीचभागसहिते = दशमेऽंशे ( ६ रा १०°) विद्यमाने सति सः ( राजश्रेष्ठकुलाग्रजोऽपि ) विगतश्रीपुत्रदाराशनः = श्रियः सम्पदः, पुत्रा आत्मजाः, दाराः = स्त्रियः, अशनं = भोजनं तैर्विगतो रहितो भवति । सर्वथा दुर्भाग्यो भवतीति भावः ॥ २ ॥ यदि सूर्य मेष राशिमें तुलाके नवांशमें हो उसे पापग्रह देखते हों तो जातक निर्धन होता है । यदि शुक्र कन्या राशिमें कन्या के ही नवांशमें हो तो भिक्षुक होता है । यदि सूर्य नीच राशि (तुला) में अतिनीच भाग (१०) से युत हो तो जातक श्रेष्ठ राज कुलका होनेपर भी लक्ष्मी, पुत्र, स्त्री और भोजनसे रहित होता है ॥ २ ॥ मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् । तारानाथविकर्त्तनौ गदगतौ सौरेण संवीक्षितौ जातोऽसौ समुपैति नीचविहितोपायेन सञ्जीवनम् ॥ ३ ॥