जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 189, कुल 588 में से
संदर्भ में पढ़ेंHere is the transcription of the page:
आयुर्दायाध्यायः ॥५॥ १६३ अभ्रम्भव्रवायुध्वजो ज्वरामयकृतस्तूदङ्मुखत्वाद्राष्टमे सूर्यार्थेनिधने चरादिषु परस्वाध्वप्रदेशेष्विति । शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्युः खबन्धुस्थयोः कूपे मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्मस्थितैः। कन्यायां स्वजनाद्विमोष्णकरयोः पापग्रहैर्दृष्टयोः स्यातां यद्युभयोदयोऽर्कशशिनौ तोये तदा मज्जितः मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्गे मृगे शस्त्राग्निप्रभवः शशिन्यशुभयोर्मध्ये कुजर्क्षे स्थिते । कन्यायां रुधिरोत्यशोषजनितस्तद्वत्स्थिते शीतगौ। सौरर्क्षे यदि तद्वदेव हिमगौ रज्ज्वग्निपातः कृतः। बन्धादीननवमस्ययोरशुभयोः सौम्यग्रहादृष्टयोर्द्र्रेष्काणैश्च सपाशसर्पनिगडैश्छिद्रस्थितैर्बन्धनतः । कन्यायामशुभान्वितेऽस्तमयगे चन्द्रे सिते मेषगे सूर्ये लग्नगते च विद्धि मरणं स्त्रीहेतुकं मन्दिरे॥ शूलोद्भिन्नतनुः सुखेऽवनिसुते सूर्येऽपि वा स्वे यमे सप्रक्षीणा हिमांशुभिश्च युगपत् पापैस्त्रिकोणायगैः। बन्धुस्थे च रवौ वियत्यवनिजे क्षीणेन्दुसंवीक्षिते काष्ठेनाभिहतः प्रयाति मरणं सूर्यात्मजेनेक्षिते ॥ रन्ध्रास्पद्राष्ट्रहिबुकैर्र्लगुडाहताङ्गः प्रक्षीणचन्द्ररुधिरार्कदिनेशपुत्रैः । तैरेव कर्मनवमोदयपुत्रसंस्थैर्धूमाग्निबन्धनशरीरनिकृन्तनान्तः ॥ ६ ॥ बन्ध्वस्तकर्मसहितैः कुजसूर्यमन्दैर्निर्याणमायुधशिखिक्षितिपालकोपैः । सौरेन्दुभूमितनयैः स्वसुखास्पदस्यैर्ज्ञेयः क्षतकृमिकृतश्च शरीरघातः ॥ ७ ॥ खस्थेऽर्केऽवनिजे रसातल गते यानप्रपाताद्वधो यन्त्रोत्पीडनजः कुजेऽस्तमयगे सौरेन्दिनाभ्युद्गमे। विण्मध्ये रुधिरार्कशीतकिरणैर्जूकाजसौरर्क्षगैर्या तैर्विगलितन्दुसूर्यरुधिरैर्व्योमास्तबन्ध्वाहयान् ॥ ८॥ वीर्य्यान्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे ॥ गुह्योद्भव रोगपीडया मृत्युः स्यात् कृमिशस्त्रदाहजः ॥ ६ ॥ श्रस्ते रवौ सरुधिरे निधनेऽर्कपुत्रे क्षीणे रसातल गते हिमगौ खगान्तः ॥ लग्नात्मजाष्टमतपःस्थिनभौममन्दचन्द्रैस्तु शैलशिखराशनिकुड्यपातः ॥ १० ॥ द्वाविंशः कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः । तस्याधिपतिर्भूपोऽपि वा निर्याणं स्वगुणैः प्रयच्छति ॥ ११ ॥ होरानवांशकप्रयुक्तसमानभूमौ योगेक्षणादिभरतः परिफल्प्यमेतत् ॥ मोहस्तु मृत्युसमयेऽनुदितांशतुल्यः स्वेशेक्षिते द्विगुणितस्त्रिगुणः शुभैश्च ॥ १२ ॥ दहनजलविमिश्रैर्भस्मसंक्लेदशोषैः निधनभवनसंस्थैर्व्यान्नवर्गैर्विडम्बः । इति शवपरिणामश्चिन्तनीयो यथोक्तः पृथुबिरचितशास्त्राद् गत्यनूकादि चिन्त्यम् ॥ १३ ॥ गुरुदृढपतिशुकौ सूर्यभौमौ यमज्ञौ विधुघपितृपितरश्वो नारकीयांश्च कुर्युः । दिनकरशशिवीर्याधिष्ठितात् त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गहासादनूके ॥ १४ ॥ गतिरपि रिपुरन्ध्रत्र्यंशपोऽस्तस्थितो वा गुरुरथरिपुकेन्द्रच्छिद्रगः स्वोच्चसंस्थः । उदयति भवनेऽन्त्ये सौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र शेषाः ॥ १५॥ एषां श्लोकानां व्याख्या भट्टोत्पलकृता विलोक्याः । अत्र भूयस्त्वभयान्न लिखिता इति ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । आयुर्दायाह्वयेऽध्याये पञ्चमे पूर्णतां गता ॥ ५ ॥ सूर्य आदि नव ग्रहों की कृपा से मैं (वैद्यनाथ दैवज्ञ) ने निसर्गायु प्रभृति विविध आयुकी स्पष्टीक्रिया, और मृत्यु दशाके भेदों को इस पांचवे अध्यायमें वर्णन किया। (सु० ज्ञा० कार) ॥ १२५ ॥ इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते आयुर्दाषाख्ये पञ्चमोऽध्याये 'विमला' हिन्दी टीका समाप्ता ॥ ५ ॥