जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 188, कुल 588 में से
संदर्भ में पढ़ें: १६२ सटीकजातकपारिजाते- मुक्तम् ) त्रिभिर्वा चतुर्भिः नभश्चरैर्ग्रहैः कण्टकेषु = केन्द्रेषु ( १।४।७।१० ) सह गतैः जातो मृतो वा ब्रह्मपदं = ब्रह्मलोकं प्रयाति । अस्मिन्योगे ब्रह्मपदवीमुपयातीति ॥ १२२ ॥ बलवान् बृहस्पति धनुके नवांशमें होकर कर्क लग्नमें प्राप्त हो और तीन या चार ग्रह केन्द्रमें हों तो ब्रह्मपद प्राप्त करता है ॥ १२२ ॥ धनुर्विलग्ने यदि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे ॥ कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शाश्वतम् ॥ १२३ ॥ अथ मोक्षयोग उच्यते । धनुर्विलग्ने = धनुर्धरराशिलग्ने, तुम्बुरांशके = मेषराशेर्नवां- शके च लग्ने, गुरौ = बृहस्पतौ विद्यमाने, दानवपूजिते = शुक्रेऽस्ते = लग्नात्सप्तमभावगते, बलान्विते = बलिनि, शीतकरे = चन्द्रे कन्यागते ( धनुषि लग्ने कन्याराशिर्दशमो भावो भवति, तद्गते चन्द्रे ) जातो वा मृतः परं = सर्वत उत्कृष्टं पदं, शाश्वतं = जन्ममरणादिरहितं लोकं (मोक्षपदमिति ) उपैति । एतद्विष्णुपदमित्युक्तम् । न तस्मात्पुनर्निवर्त्तते । तथोक्तं भगवता श्रीकृष्णेन । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम ॥ आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्जुन । । मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यते ॥ इति गीतायाम् ॥ अत्र वराहोक्तो मोक्षयोगः स्वल्पजातके— षष्ठाष्टमकण्टकगो गुरुच्चो भवति मीनलग्ने वा । शेषैर्बलैर्नन्मनि मरणे वा मोक्षगतिमाहुः ॥ इति ॥ १२३ ॥ गुरु धनुलग्नमें मेषके नवांशका हो, शुक्र सप्तम भावमें हो और बलवान् चन्द्रमा कन्या राशिमें हो तो मरनेके बाद परमपद (मोक्ष) को प्राप्त हो ॥ १२३ ॥ | १० | ९ ल. बृ. ३ | ८ | | ११ | | ७ | | २. १२ | मोक्षप्राप्तियोगः | ६ चं २६ | | १ | | ५ | | २ | ३ शु. | ४ | अध्यायोपसंहारः नैसर्गिकदायप्रमुखास्त्वायुर्ब्दस्फुटक्रियामृत्युदशाप्रभेदाः ॥ निर्याणकालप्रभवाश्च सर्वे सङ्कीर्तिता भानुमुखप्रसादात् ॥ १२४ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आयुर्दायाध्यायः पञ्चमः ॥ ५ ॥ अत्र प्रसङ्गात् बृहज्जातकोक्तनिर्याणाध्यायो विलिखितस्तत्र पञ्चदश श्लोका अधोनिर्दिष्टाः— अनेनाध्यायोपसंहारः क्रियते । सरलार्थः ॥ १२४ ॥ मृत्युर्मृत्युगृहेक्षणेन बलिभिस्तद्धातुकोपोद्भवस्तत्संयुक्तभगान्नृणां बहुभवो वीर्यान्वितैर्भूरिभिः ।