जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 187, कुल 588 में से
संदर्भ में पढ़ेंआयुर्दायाध्यायः ॥ ५ ॥ १६१ भूचक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्चक्रमाहुः ॥ चापादिस्थं तत्सुवश्चक्रजन्यं जीवो मृत्युच्चेत्तत्रलोकं समेति ॥ ११९ ॥ इदानीं लग्नपरत्वेन गतिज्ञानमुच्यते-भूचक्रमिति । तुम्बुराद्यं = मेषाद्यं चतुष्कं मेषवृष- मिथुनकर्कैति लग्नचतुष्टयं भूचक्राख्यम् । सिंहागाराद्यं = सिंहकन्यातुलावृश्चिकेति चतुष्कं भुवश्चक्राख्यम् । चापादिस्थं = धनुर्मकरकुम्भमीनेति चतुष्कं सुवश्चक्राख्यं विद्वांस आहुः । चक्रप्रयोजनमुच्यते । जीवो मृत्युच्चेत्तत्रलोकं समेति । यस्मिँल्लग्ने म्रियते तल्लग्नं यच्चक्रगतं भवति तल्लोकं मरणानन्तरं जीवः समेति=यातीति । मेषादिचतुष्के लग्ने मृतो भूर्लोकमुप- याति । सिंहादिचतुष्टये भुवर्लोकमेवं चापादिचतुष्टये स्वर्लोकं गच्छति ॥ ११९ ॥ मेष, वृष, मिथुन और कर्क ये चार स्थान भूचक्र कहलाते हैं, ये मरणलग्न हों तो जीव भूर्लोकको जाता है। सिंह, कन्या, तुला और वृश्चिक भुवश्चक्र हैं, ये मरणलग्न हों तो जीव भुवर्लोक जाता है। शेष = धनु, = मकर, कुम्भ और मीन ये चार राशि स्वश्चक्र हैं, इन लग्नोंमें मरनेवाला स्वर्लोक जाता है। (सु० शा० कार) ॥ ११९ ॥ रिःफाधीशो पापषष्ठ्यंशयाते पापैर्दृष्टे नारकं लोकमेति ॥ राहौ रिःफे मन्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ १२० ॥ अन्ययोगान्तरमुच्यते । रिःफाधीशे = जन्मलग्नान्मरणलग्नाद्वा व्ययभावपतौ पापष- ष्ठ्यंशमुपगते पापग्रहैर्दृष्टे च नारकं लोकं समेति । राहौ रिःफे = द्वादशे, मन्दिरन्ध्रेशाभ्यां युक्ते, तथा शत्रुस्थानस्य षष्ठभावस्य स्वामिना ( षष्ठेशेन ) दृष्टे तथा स्याद्यान्नरकं गच्छ- तीति ॥ १२० ॥ बारह वें भावका स्वामी पापषष्ठ्यंशमें हो उसे पापग्रह देखते हों तो नरकलोक जाता है। राहु, गुलिक और अष्टमेशसे युक्त होकर यदि १२ वें भावमें हो और उसे षष्ठेश देखता हो तो भी नरकलोकमें जाता है। (सु० शा० कार) ॥ १२० ॥ उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् ॥ कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ १२१ ॥ शुभग्रहे स्वकीयोच्चराशिगते, व्ययगते = द्वादशभावगते, शुभवर्गके च गते, पापग्रहैः शुभग्रहैश्च सन्दृष्टे, मृतस्य विपुलमुत्कृष्टं स्वर्गादि-भोगं वदेत् । अथवा कर्मस्थानपतौ = दशमभावेशे पुरन्दरस्येन्द्रस्य गुरौ=बृहस्पतौ, रिःफोपयाते = द्वादशभावगते तथा सौम्याश्च ते व्योमनिवासिनो ग्रहाः ( शुभग्रहाः ) तेषां दृष्ट्या सहिते तस्य मृतस्यामरत्वं=देवत्वं भवेत् अस्मिन्योगे जातो मृतो वा देवपदवीमुपयातीति भावः ॥ १२१ ॥ शुभग्रह उच्चराशिमें होकर १२ वें भावमें हो, उसे पापग्रह और शुभग्रह देखते हों, शुभवर्गमें भी हो तो उसको सुन्दर स्वर्गादिका भोग मिले यह फल कहे। बृहस्पति दशमेश होकर बारहवें हो और शुभग्रहों की दृष्टि से युक्त हो तो उस जातकको अमर ( देव ) पद प्राप्त हो ॥ १२१ ॥ बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते ॥ त्रिभिश्चतुर्भिः सह कण्टकेषु नभश्चरैर्ब्रह्मपदं प्रयाति ॥ १२२ ॥ अथ ब्रह्मपदप्राप्तियोग उच्यते । बृहस्पतौ चापनवांशकस्थे = धनुर्नवांशगते, बला- न्विते = बलयुक्ते, कर्कटलग्नयाते ( अत्र कर्कलग्नं भवति, तस्मिन्गुरुश्चोपगतो भवेत् । कर्क- राशिः गुरोरुच्चं धनुर्नवांशकोऽपि गुरोर्नैज इति तत्र गुरुर्बलीयान्भवत्येवेति 'बलान्विते' पद-