जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 186, कुल 588 में से
संदर्भ में पढ़ें१६० सटीकजातक्रपारिजाते- नुदितनवांशेन किमिति ? ) या घटिकास्तावन्मितो मोहो मरणकाले मोहाह्वयः कालः स्यात् । तस्मिन्स्वभांशेक्षिते = स्वनवांशपतिनाऽवलोकिते तावन्मित एव । पापैरवलोकिते द्विगुणीकृतः कालः, सौम्यैरवलोकिते लग्ने त्रिगुणितोऽवस्थात्मकः कालः स्यात् । अथ क्रूरैः = पापैः, अप्यैर्जलचरैः, सौम्यैः=शुभैः, मिश्रतनूगैः=पापशुभसंयुक्तैः लग्ना- द्द्वाविंशतित्र्यंशकैर्द्वाविंशद्रेष्काणैः क्रमात् अग्निजलसंमिश्रश्वमुख्यैः शरीरं नाशं याति । अत्रेदमुक्तं भवति । पापद्रेष्काणे ( द्वाविंशतिमे ) सति मरणान्तरं शरीरमग्निना दह्यते । जलद्रेष्काणे शरीरं जले क्षिप्यते । सौम्यद्रेष्काणे संमिश्रम्भवति शुष्यत इति । मिश्रद्रेष्काणे श्वमुख्यैः = कुक्कुरश