जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 220, कुल 588 में से
संदर्भ में पढ़ें१६४ सटीकजातकपारिजाते- इदानीं कुष्ठयोगमाह- हित्वा लग्नपतिं विलग्नसहितेष्वन्येषु कुष्ठं वदेत् । नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे ॥ मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके । चन्द्रे शोभनयोगदृष्टिरहिते कुष्ठं वदेद् देहिनाम् ॥ ८६ ॥ हित्वेति । लग्नपतिं = लग्नेशग्रहं हित्वा = वर्जयित्वा अन्येषु ग्रहेषु विलग्नसहितेषु = जन्म- कालीनलग्ने स्थितेषु जातस्य कुष्ठं वदेत् । लग्नेशो लग्नगतो यदि स्यात्तदा कुष्ठं नेति हित्वा लग्नपतिमित्यनेनावगम्यः । अन्येषु कुष्ठं वदेदित्यत्र कुष्ठविवरणमुच्यते । नीलं भानु- सुते = शनौ लग्नगते, नीलं नीलकुष्ठं, चण्डकिरणे = सूर्ये लग्नगते तु रक्तं = लोहितवर्णं कुष्ठं, भूमिजे = मङ्गले लग्नगते सितं = श्वेतकु