जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 233, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥७॥ २०७ नीचेति । जन्मकाले नीचस्थितो ग्रहो यस्मिन्नवांशे भवेत् तन्नवांशराशिपतौ ग्रहे त्रिकोणे ( ५।९ ) अथवा केन्द्रे ( १।४।७।१० ) गतवति, यदि चरगृहे=मेषकर्कतुला- मकराणामन्यतमे राशौ, जन्मलग्ने, तद्द्वात्रपे=लग्नराशीशे, चरगृहांशसमन्विते = चररा- शिनवांशे गते, वा ( वा पक्षान्तरे बोध्यः ) जातो नरो महीपती राजा, अथवाऽतिप्रबलो बहुधनवान्पुरुषो भवेदिति । तथा सर्वार्थचिन्तामणौ— नीचस्थितांशनाथस्तु खेटः केन्द्रत्रिकोणगः । चरलग्ने तदीशे तु चरांशादौ नृपो भवेत् ॥ इति । जिसके जन्मकालमें नीच राशिगत ग्रहका नवांश स्वामी त्रिकोणमें हो अथवा केन्द्रमें हो, चर राशिका जन्म-लग्न हो वा लग्नेश चरगृहके नवांशमें हो तो वह मनुष्य राजा हो वा अत्यन्त प्रभावशाली हो ॥ १४ ॥ मानस्थानपतौ पराभवगते पारावतांशेऽथवा स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् ॥ लग्ने नीचगृहे पुरन्दरगुरौ रन्ध्रे सपापग्रहे तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥ १५ ॥ मानेति । मानस्थानपतौ = दशमभावेशे, पराभवगते = अष्टमभावमुपस्थिते, पाराव- तांशे = स्वकीयषडधिकारेशु गते अथवा स्वोच्च-स्वर्क्ष-सुहृन्नवांशकगते=स्वकीयोच्च=स्वकी- यराशि-स्वमित्रराशीनामन्यतमस्य नवांशके प्राप्ते, जातो राजाधिराजो राज्ञामपि राजा ( King of Kings ) भवेत् । लग्न इति । पुरन्दरगुरौ=बृहस्पतौ, नीचगृहे=मकरराशौ स्थिते लग्ने गतवति, अर्थान्मकरराशिजन्मलग्नगतो गुरुः स्यादिति । रन्ध्रे = अष्टमे भावे ( सिंहराशौ ) सपापग्रहेण = केनचित्पापग्रहेण सहिते, तद्राश्यंशसमन्विते=तस्याष्टमभावस्य नवांशे ( लग्नगतनवांशाच्चतुःषष्टितमे नवांशे ) गतवति पापग्रहे च यदि कस्यचिज्जन्म स्यात्तदाऽसौ राजाधिराजो ( King of Kings ) भवेत् । अत्रोदाहरणे—प्रथमे योगे दशमेशः शनिरष्टमे भावे तुला-( स्वोच्च- ) राशिनवांशगतो योगकारकः । द्वितीये योगे मकरलग्ने तृतीयनवांशे गुरुः, अष्टमे भावे तृतीयनवांशगतः सूर्यश्च योगं कुरुतः ॥ १५ ॥ [प्रथम चक्र: लग्न २ (वृष), २ भाव ३, ३ भाव ४, ४ भाव ५, ५ भाव ६, ६ भाव ७, ७ भाव ८, ८ भाव ९ (श. २ रं), ९ भाव १०, १० भाव ११, ११ भाव १२, १२ भाव १] [द्वितीय चक्र: लग्न १० (मकर - ल. १० गु), २ भाव ११, ३ भाव १२, ४ भाव १, ५ भाव २, ६ भाव ३, ७ भाव ४, ८ भाव ५ (र. १०ं)] दशमभावका स्वामी ८ वें भावमें प्राप्त हो, पारावतांशमें हो वा उच्च, स्वराशि, मित्र- राशिके नवांशका हो उस समय जो मनुष्य उत्पन्न हो वह राजाओंका राजा ( चक्रवर्ती ) होवे। लग्नमें नीच गृहका ( मकरका ) गुरु हो, अष्टम भाव पापग्रहसे युत हो और उस ( ८ भाव ) के नवांशसे यदि युक्त हो तो वह राजाधिराज हो ॥ १५ ॥ जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् ॥ भाग्येशस्थनवांशपे तनयगे बन्धुस्थिते वा नृपो दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥ १६ ॥