जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 236, कुल 588 में से
संदर्भ में पढ़ें२१० सटीकजातकपारिजाते- नीवखेटरहिते = नीचगतग्रहेण वियुते यदि जन्म स्यात्तदा जातः पृथ्वीशतुल्यः = नृपसमो भवेदिति । अत्र द्वितीययोगे सर्वार्थचिन्तामणौ सादृश्यं यथा— माने राहौ भवे मन्दे भाग्यनाथेन वीक्षिते । लग्नेशे नीचखेटेनायुते नृपसमो भवेत् ॥ इति ॥ १९ ॥ जिसके जन्म समयमें शनि बलवान् होकर उत्तम वर्गमें हो और गुरु नीच नवांशमें न हो, सूर्य शुभग्रहसे दृष्ट हो वा शुभग्रहके नवांशमें हो तो वह मनुष्य राजाका प्रिय तथा राजाके सदृश होवे । राहु कर्म भावमें हो, शनि लाभमें हो, भाग्येश उसकोदे खता हो और लग्नेश नीचस्थ ग्रहसे युत न हो तो राजाके तुल्य होवे । ( सु० ज्ञा० कार ) ॥ १९ ॥ नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः । स्वतुङ्गराश्यंशसमन्विता वा धरापतिर्धार्मिकचक्रवर्ती ॥ २० ॥ नीचमिति । द्वित्रिचतुर्ग्रहेन्द्राः=द्वौ वा त्रयो वा चत्वारो ग्रहाः ( न पञ्चादयः, सीमि- तत्वात् ) नीचङ्गताः = स्वस्वनीचराशिगताः सन्तः षष्ठ्यंशके शोभनभागयुक्ताः = शुभष- ष्ठ्यंशगता भवेयुः, वा स्वतुङ्गराश्यंशसमन्वि- ताः=निजोच्चराशिनवांशगता भवेयुः । इद- मुक्तं भवति । द्वौ, त्रयो वा चत्वारो ग्रहा यत्र तत्र भावे नीचराशिषु भूत्वा यदि स्वकीयोच्चराशीनां नवांशेषु वा शुभषष्ट्यंशेषु गता भवेयुः, तदा जातो नरो धार्मिकचक्रवर्ती = पुण्यात्मा, सार्वभौमश्च धरापतिर्नृपो भवतीति । तथा च सर्वार्थचिन्तामणौ— त्रयो वा द्वौ खगौ वाऽपि चत्वारो नीचसंयुताः । शुभषष्ट्यंशसंयुक्ताः स्वोच्चांशे वा धरापतिः ॥ २० ॥ जिसके जन्म समय दो, तीन या चार ग्रह नीचमें हों और शुभ-षष्ठ्यंशमें हों वा अपनी उच्चराशिके नवांशमें हों तो धार्मिक चक्रवर्ती भूमिपाल ( राजा ) हो ॥ २० ॥ लग्नात्कर्मशुभाधिपौ शुभगृहाद्व्यापारधर्मेश्वरौ मानादास्पदभाग्यपौ च सहितावन्योन्यराशिस्थितौ । अन्योन्येक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी जातो यानपकायपेक्षितयुतौ बह्वर्थयानाधिपः ॥ २१ ॥ लग्नादिति । १. लग्नाज्जन्मकालीनलग्नात्, कर्मशुभाधिपौ=दशमनवमभावपती ( नव- मेशदशमेशौ ), २. शुभगृहात् = नवमभावात्, व्यापारधर्मेश्वरौ=दशमेशनवमेशौ, लग्ना- त्पञ्चमेशषष्ठेशौ, इत्यर्थः । ३. मानात् = दशमभावात् = आस्पदभाग्यपौ = दशमेशनवमेशौ, लग्नात्षष्ठेशसप्तमेशौ, इत्यर्थः । च शब्दो विकल्पार्थे । उक्तौ तौ, सहितौ = यत्र तत्रैकत्र संयुक्तौ, वा अन्योन्यराशिस्थितौ = नवमेशो दशमे, दशमेशो नवमे च स्थितौ भवेताम्, वा अन्योन्येक्षणकेन्द्रगौ = परस्परं दृष्टियुतौ परस्परं केन्द्रगतौ च भवेतां, तथा भूतौ धनपतेः= द्वितीयभागेशस्य सम्बन्धिनौ चेद्भवेतां, तथा यानपकायपेक्षितयुतौ = यानपेन चतुर्थेशेन कायपेन लग्नेशेने चेक्षितौ दृष्टौ युतौ वा भवेतां तदा जातो नरो धनी = धनवान्, बह्वर्थया- नाधिपः = बहुधनवाहनानामधीशो भवेत् ॥ अत्र प्रसङ्गात् सम्बन्धः प्रदर्श्यते— प्रथमः स्थानसम्बन्धो दृष्टिग्रस्तु द्वितीयकः । तृतीयश्चैकतो दृष्टिः स्थित्येकत्र चतुर्थकः ॥