जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 243, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥ ७ ॥ २१७ तेषां सेकैः सीकरैः, रेणुः=पांशुः ( धूलिः ) सिच्यते=आर्द्रत्वं नीयते । अस्मिन्योगे जातो नरः गजाश्वसङ्कुलधलतीति भावः ॥ ३५ ॥ जिसके जन्म-समय रवि, चन्द्र, बुध और शुक्र मित्रांशकमें होकर दशम स्थानमें हों, शत्रु की राशिमें न हों, अस्तङ्गत न हों, न नीच राशिमें हों तो वह मनुष्य राजा होता है, उसकी यात्रामें धूलियोंको मतवाले गजराज अपने मदसे सींचते हैं ॥ ३५ ॥ क्ष्मासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरीक्षितः । भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥ ३६ ॥ क्ष्मासुत इति । बली = दिगादिबीर्यसहितः, क्ष्मासुतः = भौमः, स्वोच्चं = मकरराशिं, उपाश्रितः = प्राप्तो भवेत् । तथा भूतः, रवीन्दुवाचस्पतिभिः=सूर्येन्दुगुरुभिः, निरीक्षितः= दृष्टो यदि भवेत्तदा कुत्सितः = नीचकुलजातोऽपि, समस्तपृथ्वीपरिरक्षणक्षमः=निखिलाया भुवः शासने दक्षो नरेन्द्रः = राजा भवेदिति ॥ ३६ ॥ जिस मनुष्यके जन्म-समय मङ्गल उच्च राशिका हो, बली हो, उसको सूर्य, चन्द्र और बृहस्पति देखते हों तो वह यदि कुल-हीन भी हो तो भी समस्त भूमण्डलका पालन करने में समर्थ राजा होवे ॥ ३६ ॥ बुधोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले । वियद्गते भार्गवनन्दने ग्रहे प्रशास्ति पृथ्वीमगदो निराकुलः ॥ ३७ ॥ बुधोदय इति । बुधोदये=बुधे उदयो लग्नमिति बुधोदयस्तस्मिन् ( लग्नगते बुध इत्यर्थः ) बृहस्पतौ सप्तमराशिगे = लग्नात्सप्तमे भावे गते, अमले चन्द्रे=शुक्लचन्द्रे, कुलीरे सुखराशिगे = कर्कराशिगतचतुर्थभावगते, भार्गवनन्दने=शुक्रे, वियद्गते=दशमे भावे गत- वति । एतदुक्तं भवति । 'कुलीरे सुखराशिगे' इत्यनेन वाक्येन कर्कराशिश्चतुर्थो भावस्तत्र चन्द्रस्तदा लग्नं मेषराशिस्तत्र बुधः, सप्तमस्तुलाराशिः तत्र गुरुः, दशमो मकरस्तत्र शुक्नो भवेत्तदा जातो नरोऽगदः=रोगरहितः, निराकुलः= सुखेन, पृथ्वीं प्रशास्ति । निरामयो निर्म- यश्च राज्यं करोतीति भावः ॥ ३७ ॥ बुध लग्नमें, गुरु सप्तममें, पूर्ण चन्द्रमा कर्क और सुखमें, शुक्र दशम गृहमें हों तो वह मनुष्य निराकुल पृथिवीका राज्य करता है ॥ ३७ ॥ प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः । एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥ ३८ ॥ प्रधानेति । सम्पूर्णः=सकलकलान्वितः, शशलाञ्छनः=चन्द्रः, प्रधानबलेन=उच्चबलेन स्थानबलेन वा संयुक्तः एकोऽपि तथाभूतश्चन्द्रो जातं नरम्, अरिन्दमं=विद्विषोन्मूलकं, नरा- धिपं=नृपालं कुरुते। अत्रेदमवधेयम् । एकाकी अपि चन्द्रः शुभभावस्थ उच्चे स्वभे वा विद्यमानो राज्यं ददातीति ॥३८॥ जिसके जन्म-समय एकभी पूर्ण चन्द्रमा [कुण्डली: २ भावे 'बृ. शु.', १ भावे 'ल.'] प्रधान बलसे युक्त हो तो बालकको शत्रुओंका दमन करनेवाला राजा बनाता है ॥ ३८ ॥ देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः । करोति वसुधानाथं निर्जितारातिमण्डलम् ॥ ३६ ॥ देवमन्त्रीति । स्पष्टार्थः ॥ ३९ ॥ जिस मनुष्यके जन्म-समय बृहस्पति शुक्रसे युक्त होकर दूसरे स्थानमें स्थित हो, १६ जा०